This page has not been fully proofread.

व्याख्याद्वयोपेतम्
 
र.र.
 
श्रु. भा. - कृताऽभिषेका-महिषी । अतः अप्रतिहतचिकीर्षिता ।
 
BAUAUAVAGRYAÜRÜNÜRYAKRÜPÜRÜNÜRÜAURUAURUAURUAURUS
 
-
 
13
 
देवदेवदिव्यमहिषीम्,
 
'त्वया देवि ! परित्यक्तं सकलं भुवनत्रयम् ।
 
विनष्टप्रायमभवत्त्वयेदानीं समेधितम्' ॥ (वि.पु.१-९-१२३)
 
'सन्त्यक्ता ये त्वयाऽमले!' (वि.पु.१-९-१२९) इत्यादिषूक्तसन्त्यागोऽप्युपेक्षामात्रम् । तच
प्रीतिकोपविरहेणावस्थानम् ।
 
नन्वेवं भगवदभिमतत्वादिकं 'शरण्य त्वौपयिकं सर्वं तत्पत्न्यन्तरेऽपि स्यात्
'विष्टम्भो दिवो धरुणः पृथिव्याः' (तै.सं.४-४-१२) इत्यादिभिस्तन्माहात्म्यप्रसिद्धेः; तारतम्यन्तु
दुरूहम् । अतः कथं अशरण्यशरण्यामनन्यशरण इत्युच्यते ? तत्राह - देवदेवदिव्यमहिषीम्
इति । यथा मनुष्यादिभ्योऽधिकानां ब्रह्मादिदेवानां मनुष्यस्थानीयानां सर्वप्रकारसमधिकतया
भगवान् देवः, तथा ब्रह्मदिदेवपत्नीभ्यस्समधिकानां भगवत्पत्नीनामप्यसौ प्रधानतमेत्यभिप्रायेणात्र
दिव्यशब्दः ।
 
इयं ह्युभयाधिष्ठानैकशेषित्वसाम्राज्येन सर्वमङ्गलप्रदायित्वादिभिश्च प्रकृष्यत इति
भगवच्छास्त्रे उक्तम् । तथा पुराणेऽपि 'अनन्तनामधेया च शक्तिचक्रस्य नायिका' (ब्र.पु)
इति । पत्न्यादिषु शक्तिशब्दस्तद्विहारादिकार्योपयुक्तविशेषणत्वाभिप्रायः । तदिदं प्राधान्यं 'कृताभिषेका
महिषी' (अमरः.२-६-५) इति विशेषणात् महिषीशब्देनैव वा विवक्षितम् । तदा दिव्यशब्दः
तद्विग्रहस्य भगवद्विग्रहस्येवाप्राकृतत्वादिकं व्यनक्ति ।
 
-
 
एवं चिकीर्षितभङ्गपरिहाराय प्रत्याख्यानानर्हत्वाय च पतिवाल्लभ्यातिशय उक्तः ।
अथ तथाविधोत्कर्षस्वनिकर्ष-स्वापराधदर्शनजनितसाध्वसपरिहाराय प्रजावात्सल्यातिशयमाह
अखिलजगन्मातरम् इति । जगच्छब्द इह चेतनपरः । 'नमामि सर्वलोकानां जननीमब्धिसम्भवाम्',
(वि.पु.१-९-११७) 'त्वं माता सर्वलोकानाम्' (वि.पु.१-९-१२६) इत्यादिभिरस्याश्चतुर्मुखादीन्
3 सर्वाञ्जन्तून्प्रति मातृत्वात् लोकमातेति नाम पठ्यते । एवमुपबृंहणबलात् 'निचदेवीं
 
1. तच्चरण्य आ। 2. ब्रह्माण्ड आ। 3. सर्वजन्तून्प्रति आ ।
 
-