This page has been fully proofread once and needs a second look.

र.र.
 
-'महाविभूतेस्सम्पूर्णषाड्गुण्यवपुषः प्रभोः ।
 

मम सर्वात्मभूतस्य नित्यैवैषानपायिनी' ॥ (ब्रा.पु.) इत्यादिभिरनयोर्न

कदाचिदपि विश्लेषः । अवतारेष्वपि कदाचिद्विश्लेषशोकादेरभिनयमात्र- मेव । इदञ्च
श्रीमद्रामायणान्ते सूचितम्
 
1
 
12
 
शरणागतिगद्यम् -
 
-
'रामस्य सव्यपार्श्वे तु पद्मा श्रीस्समवस्थिता ।
 

दक्षिणे हीह्रीर्विशालाक्षी व्यवसायस्तथाग्रतः' (रा. उत्त. १०९-६) इति
एवं देवीमित्यन्तेन व्याख्येयस्थश्रीशब्दार्थो दर्शितः । तन्मुखेन नित्यं भगवत- स्सुखप्रसादनीयत्वं
'
व्यञ्जयितुं'[^1] नित्यानपायिनीम् इत्यन्तेन तत्रत्यमतु- बर्थश्चोक्तो भवति
 

ननु भगवतीमित्यादिभिस्स्वतो निर्दोषत्वादौ नित्यसम्बन्धे च सिद्धेऽपि

स्त्रीत्वोपाधिवशात्कदाचित्पतिपारार्थ्यवैमुख्यम्, पतिप्रतिकूलाभिप्रायत्वम्, अविमृश्यकारित्वम्,
नृशंसत्वम्, निग्रहरुचित्वञ्च -
 

'शतह्रदानां लोलत्वं ' मत्स्यानां प्रतिकूलताम्
 
[^2] ।
गरुडानिलयोश्शैघ्र्यम् अनुगच्छन्ति योषितः' ॥ (रा.अर.१३-६)

'विद्यते स्त्रीषु चापल्यं' (रा.युद्ध. १६-९) 'किं न कुर्वन्ति योषितः । इत्यादिभिः प्रसिद्धं
यदि स्यात्तदा कथं नित्यमशरण्यशरण्यत्वं स्यादित्यत्राह - निरवद्याम् इति ।
सामान्यतस्स्त्रीत्वनिबन्धनदोषवचनं क्षेत्रज्ञेष्वेव कर्मोपाधिविशेष- नियतं प्रायिकञ्चेति नास्याः
तत्प्रसङ्गः । उक्तञ्च तथैव, 'अनवद्याऽनवद्याङ्गी नित्यं तद्धर्मधर्मिणी' (ल.तं.१७-३१) इति ।
श्रीरामायणे च 'इयन्तु भवतो भार्या दोषैरेतैर्विवर्जिता' (रा. अर. १३-७) इति
 

किञ्च, 'आनृशस्यं परो धर्मस्त्वत्त एव मया श्रुतः' (रा. सुं. ३८-४१) इति

स्मारयन्त्या नृशंसत्वप्रसङ्ग एव नास्ति । निग्रहरुचिञ्च समर्थाया एवास्या अत्यन्तापकारिष्वपि
न सम्भवतीति स्ववाक्यसिद्धम्,
 
एतद्विभूतिभूत' देवतादिषु
 
तन्मूलभूतसङ्कल्पः
 

'असन्देशात्तु रामस्य तपसश्चानुपालनात् ।
 

न त्वां कुर्मि दशग्रीव ! भस्म भस्मार्ह ! तेजसा' ॥ (रा. सुं. २७-२०) इति

एतद्विभूतिभूत देवतादिषु [^3]
स्वकर्म'[^4] वशादीदृशदोषसम्भवेऽपि नास्याः
 
तन्मूलभूतसङ्कल्पः !