2023-04-07 05:35:51 by ambuda-bot
This page has not been fully proofread.
व्याख्याद्वयोपेतम्
11
निरवद्याम्,
श्रु. भा. - दौर्लभ्यरूपाऽवद्यरहिता निरवद्या ।
GRUAURYAÜRÜNÜRÜNÜRÜAERUAURUPURUS
र.र.
BRUABAXX
शृणाति निखिलान्दोषान् श्रीणाति च गुणैर्जगत् ।
श्रीयते चाखिलैर्नित्यं श्रूयते च परम्पदम् ॥ (अहि.सं.५१-६५) इति ।
'श्रयन्तीं श्रीयमाणाञ्च शृणन्तीं शृण्वतीमपि । ( अहि. सं. २१-८) इति च । अस्य च
नाम्नस्सर्वप्रकारोत्कर्षज्ञापकत्वम् आहुः - 'श्रीरित्येव च नाम ते भगवति ! ब्रूमः कथं त्वां
वयम्' (च.श्लो.१) इति ।'श्रीरसि यतः' (श्रीगु.र.को.२९) इति च । भगवन्नारायण-पदोक्तस्यानुरूप्यञ्च
भगवतीम्, श्रियम् इति, पदाभ्यां दर्शितम् । श्रीपदनिरुक्तिभिस्संश्रित-दोषनिराकरणम्,
प्राप्यरुचिप्रापकाध्यवसायादिप्रदानमुपायस्वरूपनिर्वर्तकत्वम् । 'पितेव त्वत्प्रेयान्'
(श्रीगु.र.को.५२) 'इत्युक्तं प्रतिप्रसादजनकत्वञ्च सिद्धम् ।
एवमाश्रितार्थव्यापारास्तदनुगुणावतारादयश्च
भर्तुर्लीलायामैकरस्यात्तदनुगुणव्यापारोपपत्तिरिति
'द्विषट्कार्णस्थ'भगवद्वासुदेवपदार्थानुरूप्यञ्च ज्ञाप्यते । श्रियं देवीम् इति समभिव्याहारेण,
'श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम्' । (श्रीसू. ३) 'श्रीदेवी पयसस्तस्मादुत्थिता
धृतपङ्कजा' ॥ (वि.पु.१-९-१००) इत्यादयश्श्रुतिस्मृतयः सूच्यन्ते । 'श्रियः श्रीश्च भवेदग्र्या'
(रा.अयो.४४-१५) इत्याद्युक्तं पतिसम्बन्धेन द्योतमानत्वादिकमपि देवीमित्यनेन गम्यते ।
न कर्मकृता इत्याह देवीम् इति ।
भावः । भगवतीमित्यादिपदत्रयेण
एवं 'क्रीडार्थमवतीर्णस्य तस्य' इत्याद्युक्तलोकानुकम्पाहेतुकावतारायाः अपि तस्याः
'पश्यतां सर्वदेवानां ययौ वक्षःस्थलं हरेः, (वि.पु.१-९-१०५) 'मया विना शुष्यति शोकदीनम्'
(रा. सुं.३६-२८) इत्यादिभिरागन्तुकसंश्लेषविश्लेषादिव्यपदेशात् कथमपराधभीतानां
तत्तदवस्थासु तत्पुरस्कारेण भगवदाश्रयणं स्यादित्यत्राह - नित्यानपायिनीम् इति । 'श्रीवत्सवक्षा
नित्यश्रीः' (रा.यु.११४-१५) 'नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी, (वि.पु.१-८-१७) 'अन्येषु
चावतारेषु विष्णोरेषाऽनपायिनी, (वि.पु.१-९-१४४) 'भगवद्वासुदेवस्य नित्यैवैषाऽनपायिनी,
१. द्विषट्कार्णस्थः - द्वादशाक्षरमन्त्रस्थः इत्यर्थः । अक्षरवाची, अर्णशब्दोऽपि प्रामाणिकः । अत एव
सहस्रनामभाष्यनिरुक्तौ, 'वस्वर्णो मनुरुज्वलः, 'सप्तार्णो मृत्युनाशकः' इत्यादि प्रयोगाः दरीदृश्यन्ते ।
1. इत्याद्युक्तं - अ । 2. अवगम्यते - अ ।