2023-04-07 05:35:50 by ambuda-bot
This page has not been fully proofread.
-
श्रु. भा. सदाऽपराधानभिज्ञतायै नित्यानपायिनीम् इति पदम् ।
BRURURUZUUR TÜRÜSÜRÜRURÜPÜRÜPÜREAGRUAGRGAHAYA
10
श्रियम्, देवीम्, नित्यानपायिनीम्,
र.र. अथ विभूतितोऽपि मङ्गलनिर्वाहकत्वं प्रदर्शयति- पद्मवनालयाम् इति ।
एतेन 'पद्मे स्थितां पद्मवर्णाम् (श्रीसू. ४) 'गन्धद्वाराम्' (श्रीसू. ९) इत्याद्याम्नात-
सौवर्ण्यसौगन्ध्यातिशयोऽपि सूचितः । तच्छरणवरणमन्त्रे चोक्तम् - 'तां पद्मनेमीं शरणमहं
प्रपद्ये' (श्रीसू.५) इति नाभिस्थानीयकर्णिकावस्थानात्पद्ममस्याः नेमिवद्भवति । 'पद्ममेव
नेमिः - नयनसाधनं यस्यास्सा पद्मनेमी' इति केचित्; 'मातरं पद्ममालिनीम्, (श्रीसू. ११)
'आदर्दा पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीं, (श्रीसू.१३) 'श्रीनिलयमालाधारिणी', (श्रीमन्त्रम्)
'प्रियाणि तस्याः पुष्पाणि कमलानि विदुर्बुधा: ) (धनदीये) 'विकासिकमलस्थिता' (वि.पु.१-९-१००)
इत्यादिष्वप्यस्याः विशेषतः पद्माङ्गीकारश्रुतेः । श्रीविष्णुस्मृत्यादिषु विस्तरेणोक्तानां
मङ्गल्यविभूतिभेदानां इयं विशेषतो देवतेति ज्ञापयितुमिह सुप्रसिद्धमुख्यमङ्गल-
भूतपद्मवनोदाहरणम् । 'यत्र 'पद्मवनानि' च' इति भगवतो विशेषसन्निधिस्थाने पद्मवने
तद्विग्रह इव ' असौ विशेषेण सन्निधत्ते । एतेन-
'साऽहं वै पङ्कजे जाता सूर्यरश्मिप्रबोधिते ।
भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी' ॥ (म.भा. शां. २२१-२०)
इति श्रीवासवसंवादोक्तं सर्वभूतोज्जीवनार्थावतारसौलभ्यमपि प्रदर्शितं भवति ।
एवं मङ्गलगुणविभूतियोगेन निर्दोषत्वमपि सङ्कलय्याह - भगवतीम् इति ।
'ज्ञानशक्तिबल' (वि.पु.६-५-७४) इत्यारभ्य 'विना हेयैर्गुणादिभिः' (वि. पु. ६-५-७५)
इति हि स्मर्यते ।
[श्रीशब्दनिर्वचनम्]
अथोक्तवक्ष्यमाणसर्वातिशयस्थापिकया
शरणागतिगद्यम् -
-
सर्वसमाश्रयणीयत्वादिकमाह श्रियम् इति । एवं हि श्रीशब्दो निरुच्यते
-
१. पद्मवनानि 'तुलसी काननं यत्र फुल्लपद्मवनानि च ।
1.
विशेषणासौ आ ।
सुप्रसिद्ध स्वासाधारणसमाख्यया
वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः' ॥ इति वचनमिहाभिप्रेतम् ।