This page has not been fully proofread.

शरणागतिगद्यम्
 
र.र. विभवः - 'फणिपतिश्शय्यासनं वाहनम्' (च. श्लो. २) इत्यादिभिरुक्तं
विभूतिद्वयम् । यथोक्तम् - 'अस्या मम च शेषं हि विभूतिरुभयात्मिका' (वि.सं.) इति ।
उक्तञ्च श्रीराममिश्रैः - 'उभयाधिष्ठानञ्चैकं शेषित्वम्' (षडर्थसंक्षेपः) इति । एवं
द्वयोर्विभवस्यैकत्वेऽपि तदानुरूप्यवचनमन्यूनानतिरिक्तविभूतिमत्वपरम् । यद्वा, 'अर्थो
विष्णुरियं वाणी' (वि.पु.१-८-१८) इत्यादिभिः लौकिकदम्पतीन्यायेन विभज्य निर्दिष्टो
विभूत्यंशः । स्वासाधारणविभूषणादिकञ्च विभवः ।
 
`निधिः पद्मो' निधिश्शङ्खश्चतुर्दन्ती गजस्तथा ।
कल्याणसर्पः ±पञ्चास्य: 2 शिक्षितो गृहरक्षकः ॥
 
1
 
8
 
इत्यादि च पुराणप्रसिद्धमानुरूप्यमिह यथार्हं ग्राह्यम् ।
 
ऐश्वर्ये शीले चान्वितेन आदिशब्देन परत्वसौलभ्यौपयिकगुणवर्गद्वयसंग्रहः;
'सर्वैश्वर्यगुणोपेतां नित्यं तद्धर्मधर्मिणीम्' (ब्रा.पु.) इत्यादिभिरेतत्सिद्धिः । अत्र परस्परेच्छा-
विघाताभावादैश्वर्यमनुरूपम् । शीलञ्च गुहादिषु रामस्येव, त्रिजटादिषु तस्याः प्रसिद्धम् । एवं
पतिपारार्थ्ययुक्ततदितरसर्वशेषित्वान्वितानामन्येषामपि गुणानामानुरूप्यं सुगमम् ।
 
'ब्रह्मेशादिसुरव्रजस्सदयितस्त्वद्दासदासीगण: ' (च. श्लो. १) इत्युक्तेभ्यस्सातिशय
असंख्यातगुणेभ्यो व्यावृत्त्यर्थमाह अनवधिकातिशयासंख्येय इति । अनवधिकत्वम्' इह
स्वापेक्षया उत्कृष्टावधिराहित्यम् ।
 
-
 
ननु भगवत एव ऐश्वर्यमनवधिकातिशयम्; 'तमीश्वराणां परमं महेश्वरम्' (श्वे.उ.६-७),
'सर्वेश्वरेश्वर: कृष्ण:) (वि.ध.७४-४४) 'न त्वत्समश्चाभ्यधिकश्च दृश्यते ) ( श्वे.उ.६-८) 'न
त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः' (भ.गी.११-४३) इत्यादिभिस्तथोक्तेः । 'पुंप्रधानेश्वरेश्वरी'
(ल.स. १) इति नाम तु स्त्रीप्रत्ययानुपपत्तेः, श्रुत्यादिविरोधाच्च अन्यथा नेयम् । 'पुंप्रधानयोः
गोबलीवर्दन्यायेन विशेषत उक्तानां ब्रह्मादीश्वराणाञ्च भगवानीश्वरः तत्पत्नी इयमिति,
'पुंयोगादाख्यायाम्' (पा.सू. ४-१-४८) इति स्त्रीप्रत्ययोपपत्तिः । पुंप्रधाने स्वशक्तयैव
नियच्छति । ईश्वरञ्च वाल्लभ्येनेति निर्वाहो विरूपः क्लिष्टश्च । 'ईश्वरीं सर्वभूतानां' (श्रीसू. ९)
इत्येतदप्येतेन गतार्थमिति ।
 
-
 
अत्रोच्यते यद्यपि नाम्नि तथा निर्वाह; तथाऽपि श्रुतौ न तथा स्यात्,
'सर्वभूतानाम्' इति षष्ठ्यन्वयवैघट्यप्रसङ्गात् । स्त्रीप्रत्ययस्तु बाहुलकेन नेयः । 'अस्येशाना
 
१. अनवधिकातिशयत्वम् - स्वापेक्षया उत्कृष्टावधिराहित्यम् ।
1. पद्मो गदो- अ । 2. चिक्लीतो अ ।
 
>