This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
र.र. यथा 'परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः' (रा. बा. ४८-५) इति । रत्नकाञ्चनमुक्ता-
प्रवालादेरिव स्वसम्बन्धेन शोभातिशयहेतुत्वरूपमौचित्यं वा; यथा -
 
-
 

'अतीव रामशुशुभेऽतिकामया विभुः श्रिया विष्णुरिवामरेश्वरः' ॥
(रा.बा.७७-२९)
इति । यथा च -
 
7
 

'तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् ।
 

राघवोऽर्हति वैदेहीं तञ्चेऽयमसितेक्षणा' ॥ (रा. सुं. १६-५) इति च । अत्र

वयोलक्षणयोस्तुल्यशब्दः औचित्यपरः; दम्पत्योर्न्यूनाधिकवयस्कत्वात्, स्त्रीपुंसलक्षणानाञ्च
भिन्नप्रकारत्वात्, तत्सहोक्तया शीलादिष्वप्यौचित्यपर एव तुल्यशब्दोक्तार्थस्य 'अर्हति'
इति समुदायनिर्देशाच्च ।
 
,
 

यद्वा, अर्हत्त्वस्य साधकतया तुल्यशब्देन सदृशत्वमुच्यते । वयसस्सदृशत्वं

'धनकनकद्युती युवदशामपि मुग्धदशाम्' (श्रीगु.र.को. ३५) इत्युक्तमा सन्नतरत्वम् । लक्षणस्य
सदृशत्वं पतिलक्षणवत्सर्वोत्कर्षव्यञ्जकत्वम्; येन स पुरुषोत्तमः; सा च 'सर्वलक्षणसम्पन्ना
नारीणामुत्तमोत्तमा', (रा.बा. १-२७) इत्युच्यते । 'सदा तवैवोचितया तव श्रिया (स्तो. र. ३८)
'आहुस्स्वैरनुरूप रूपविभवैः' (च.श्लो.४) इत्यादिकमत्रानुसन्धेयम् ।
 

भगवत्स्वरूपादेः एतत्स्वरूपादीनां यथाक्रममानुरूप्यमूह्यम् । तत्र स्वरूपं

स्वासाधारणधर्मनिरूप्यं धर्मि: तस्यानुरूप्यम्, 'नानयोर्विद्यते परम्' (वि.पु.१-८-३५)
इत्यादिषु ग्राह्यम् । रूपं हि, 'हिरण्यवर्णाम्' (श्रीसू. १) इत्याद्याम्नातम् । तस्यानुरूपत्वं हि
अतिरमणीयत्वनित्यत्वाऽप्राकृतत्वादि विशिष्टमद्भुततमत्वम्, 'नित्यैवैषा' (वि.पु. १-८-१७)
इत्युपक्रम्य 'विष्णोर्देहानुरूपां वै करोत्येषाऽऽत्मनस्तनूम्' (वि.पु.१-९-१४५) इति च

निगमितम् । अत्र `रूपादनन्तरो'[^1] गुणशब्दस्सौन्दर्यादि दिव्यविग्रहगुण परः । 'गुणाद्रूपगुणां
चापि प्रीतिर्भूयो'व्यवर्धत[^2] (रा.बा.७७-२९) इतिवत् विग्रहगुणानां स्वरूपगुणानाञ्च
पृथङ्निर्देशः प्रीत्यतिशयद्योतनार्थः ।
 

 
 
[^
1]. रूपानन्तरो- आ ।
[^
2]. अभ्यवर्धत -आ ।
 
-
 

 
-