This page has been fully proofread once and needs a second look.

छारणागनितिद्यम्-
 
पद्मवनालयाम्, भगवतीम्,

श्रु. भा.- रूपानन्तरगुणशब्दः सौन्दर्यादिपरः । परत्वसौलभ्यकोटिनिविष्ट गुणजात-
प्रदर्शनार्थौ ऐश्वर्यशीलशब्दौ । अनवधिक इत्यादि स्पष्टार्थः[^1] । परत्वसौलभ्ययोस्समाख्याः
प्रमाणयति- पद्म इत्यादिभिश्चतुर्भिः पदैः ।

र.र. - 'एको ह वै नारायण आसीन्न ब्रह्मा नेशानः' (महोपनिषत् - ७) इत्यादि[^2] श्रुतेः ।
'सहस्रशीर्षम्' (महाना.उ.११-२५) इत्यनुवाके च तेनैव सर्वपरविद्यावेद्यनिर्धारणम् । अतस्तेनात्र
विशेष्यस्य निर्देशः । ततश्च तद्विशेषणतया भगवच्छब्दो नात्र[^3] रूढः उभयलिङ्गत्वव्यक्त्यर्थमेव ।

उक्तप्रकारं भगवतः स्वरूपं निरतिशयानन्दतया मुक्तानां नित्यानामिव च
स्वस्याप्यभिमतम्, ततोऽपि स्ववल्लभायाः स्वरूपादिकमित्यभिप्रायेण अभिमतेत्युक्तम् ।

श्रूयते हि - 'श्रियं लोके देवजुष्टामुदाराम्' (श्रीसू. ५) इति । निरवधिक क्रीडादिमता[^4]
निरुपाधिकदेवेन[^5] भगवता प्रीतिविषयीकृता मित्यर्थः । सापेक्षनिरपेक्षयोः निरपेक्षसम्प्रतिपत्तेः,
बाधकस्य चाभावादौचित्या तिशयात्तथैव वेदविद्व्याख्यातत्वाञ्च्च । देवशब्दोऽत्र वासुदेवपरः ।
'देवैर्जुष्टाम्' इति तु मन्दम् । स्मर्यते च 'प्राणेभ्योऽपि गरीयसीम्' इति ।

'अस्या देव्यामनस्तस्मिन् तस्य चास्यां प्रतिष्ठितम् ।
तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति' ॥ (रा. सुं. १५-५२) इति च ।

अभिमतत्वेपि अननुरूपत्वं अनुरूपत्वेपि अनभिमतत्वञ्च लोके दृष्टमिति
तद्व्यवच्छेदार्थं उभयोक्तिः । यथा 'चकर्थ यस्या भवनं भुजान्तरम्' (स्तो.र. ३७)
इत्यादिश्लोकयोः । लोके केनचिदाकारेणाभिमताऽनुरूपत्वमाकारा न्तरेण तदभावश्च
क्वचिदृश्यते, तद्व्युदासाय स्वरूपरूपादिसर्वोक्तिः ।

[लक्ष्मीस्वरूपादेः भगवत्स्वरूपाद्यानुरूप्यस्थापनम्]
अत्र तु[^6] स्वरूपस्य गुणत्वायोगात्, स्वरूपं, रूपं गुणः विभवैश्वर्य शीलाद्यनवधिकातिशय
असंख्येयकल्याणगुणगणश्च इति द्वन्द्वः । अनुरूपत्वमिह सम्बन्धे सति प्रकृष्टं सादृश्यम् ।
----------------

[^1].स्फुटार्थः - आ।
[^2]. इति -आ।
[^3]. अनादृतरूढिः-अ।
[^4]. क्रीडोपयुक्ततया -
[^5]. देवेन - आ ।
[^6]. तंत्र - अ ।तत्र - अ ।