2023-04-22 06:12:06 by jayusudindra
This page has been fully proofread once and needs a second look.
व्याख्याद्वयोपेतम्
[श्रीशरणागतिः]
ओम्[^१] भगवन्नारायणा[^२]भिमतानुरूप-स्वरूप-रूप-गुण-विभवैश्वर्य
शीलाद्यनवधिकातिशय-असङ्ख्येयकल्याणगुणगणाम्,
श्रु. भा. - भगवन्नारायणशब्दौ गुणविभूतिपौष्कल्यपरौ, द्विषट्का[^३]ष्टार्ण योरपि तत्साहित्यज्ञानपरौ च । अनुरूपेऽनभिमतिरननुरूपे चाभिमतिश्च दृश्यत इति तद्व्युदासाय अभिमतानुरूपशब्दौ ।
र. र. - ननु 'विष्णुपत्नी', (तै.सं. ४-४-१२) 'विष्णुवल्लभा' इत्यादिषु भास्करेण प्रभेव पत्याऽसौ निरूप्यताम् । यथोक्तं ताभ्यामेव; 'अनन्या हि मया सीता ', (रा.यु.११८-१९) 'अनन्या राघवेणाऽहम्' (रा. सुं. २१-१५) इति। इह तु तया तन्निरूपणे व्याख्येयस्थे किमिति भगवताऽसौ निरूप्यते ? प्रस्तुतोपयोगार्थमिति ब्रूमः । भगवदभिमतानुरूपत्वे हि, तस्यास्ते नेच्छावि घाताभावात्तद्विरुद्धेच्छाविरहाच्च ततोऽस्मदिष्टं सिद्ध्येत् । प्रभया प्रभावत इव व्याख्येयगतं तया तस्य निरूपणमपि श्रीवल्लभादिव्यपदेशेन दर्शयिष्यति । इदञ्च परस्परनिरूप्यत्वं अन्यत्राप्युक्तम् -
'तदेतत्सूक्ष्ममिथुनं परस्परविचिह्नितम् ।
आदावन्योन्यमिश्रत्वात् अन्योन्यप्रतिपादकम्' ॥ इति ।
आदावन्योन्यमिश्रत्वात् 'शान्तानन्त' (च. श्लो. ४) इत्यादि[^1] प्रकारेण नित्यमन्योन्यसम्बद्धत्वादित्यर्थः । न च परस्परनिरूप्यत्वे अन्योन्या श्रयदोषः, प्रभाप्रभावतोरिव प्रमाणतः प्रकारान्तरेणापि तयोर्निरूपणात् ।
अत्र द्विषट्काष्टाक्षरगताभ्यां भगवन्नारायणशब्दाभ्यां 'शुद्धे महाविभूत्याख्ये',
(वि.पु.६-५-७२) 'नरसम्बन्धिनो नाराः' (अहि.सं.५२-५०) इत्यादिभिर्निरु क्ताभ्यां उभयलिङ्गत्वमुभयविभूतित्वञ्च[^2] ख्याप्यते, भगवच्छब्दस्य 'उत्पत्तिं प्रलयञ्चैव' (वि.पु.६-५-७८) इत्यादिप्रदर्शितक्रमेण 'अन्यत्र ह्युपचारतः' (वि.पु.६-५-७८) इत्यौपचारिकप्रयोगप्राचुर्यमस्ति । नारायण शब्दस्य तु तन्नास्ति । कारणवाक्येषु चानन्यथासिद्धनिःसन्देहविशेष निर्धारणोपयुक्तश्चायम् ।
[^१] 'ओम्' इति पारायणे अनुष्ठीयते ।
[^२] भगवच्छब्दस्य हेयगुणरहितस्सन् समस्तकल्याणगुणाकरः इत्यर्थः ।
[^३] द्विषट्क - द्वादशाक्षरमन्त्रः । 'ओं नमो भगवते वासुदेवाय' इति ।
[^1]. इति - अ ।
[^2]. विभूतिमत्वञ्च - अ ।