This page has been fully proofread once and needs a second look.

शरणागतिगद्यम् -
 
श्रु.भा. - उपायोपेयपरं द्वयं विशदीक्रियते । तत्र प्रतापोष्मलपितृत्वदुरासद भगवत्संश्रयणसिद्धये, पुरुषकारभूतवात्सल्यनिर्भरलक्ष्मी 'समाश्रयणं' श्रीमच्छब्दविवरणमुखेनाऽभिधीयते ।
यद्वा श्रियं प्रपद्य तत्सन्निधौ मूलमन्त्रेण स्वरूपानुरूपपुरुषार्थप्रार्थनं तदुपाय प्रार्थनापर्यन्तं कृत्वा, तदनुज्ञया द्वयमनुसन्धीयत इति पूर्वाचार्यानुसन्धान मनुस्मरन् प्रथमं श्रियं प्रपद्यते भगवत् इति ।
र.र. - एवमपि सुकृतविशेषैरेव लक्ष्मीप्रपत्तिवत्, भगवत्प्रपत्तिरप्यस्तु; मैवम्,
तदर्थ एव ह्ययं सुकृतविशेषः । न चात्रापि पूर्ववदशक्यत्वचोदना; स्वतन्त्र बुद्ध्यैव पूर्वं तावन्मात्रशक्तिप्रदानात्, तदभिप्रायेण ह्युक्तम् । भगवता शौनकेन - 'वाचः परं प्रार्थयिता प्रपद्येन्नियतश्श्रियम्' (शौ. सं.) इति । श्रीसात्वते च -
'यामालम्ब्य सुखेनेमं दुस्तरं हि गुणोदधिम् ।
निस्तरन्त्यचिरेणैव व्यक्तध्यानपरायणाः' ॥ (सा. सं. १२-८४) इति ।
सा चैवं स्वयमाह-
'प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे ।
मामेकां देवदेवस्य महिषीं शरणं श्रयेत्' ॥ (ल.तं. १७-१०२) इति ।
न चैवम्, तदर्थमपि[^1] प्रपत्यन्तरा पेक्षया[^2] अनवस्थादिप्रसङ्गः । स्वतन्त्रसंकल्पेन व्यवस्थितत्वात् सामग्रीविशेषाणाम् । सामग्रीप्रवाहा नवस्था तु सर्वस्मिन्नपि कार्ये सर्वैस्सिद्धान्तिभिस्स्वीकर्तव्या; स्वीकृता चेति नासौ दोषः ।
अतोऽपवर्गार्थभगवत्प्रपत्तिसिद्धये -
'यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।
आत्मविद्या च देवि ! त्वं विमुक्तिफलदायिनी' ॥ (वि.पु. १- ९-१२०)
'विद्यासहायवन्तं मामादित्यस्थं सनातनम्', (म.भा. शां. ३४७-६९)
इत्यादिभिः सर्वविद्याप्रवर्तकतया तत्तद्विद्यात्वेन निर्दिष्टां सम्यग्ज्ञानव्यवसायो पायादिप्रदाने विशेषाधिकारवतीमनुग्रहैकस्वभावां श्रियमादौ प्रपद्यते - भगवत् इति । अत्र 'अशरण्यशरण्याम्' इति वक्ष्यमाणस्योपयुक्ताः विशेषाः नवभिः पदैः ख्याप्यन्ते ।
 
[^1] तदर्थं -आ ।
[^2] पेक्षायां - आ ।