This page has not been fully proofread.

शरणागतिगद्यम् -
 
श्रु.भा. - उपायोपेयपरं द्वयं विशदीक्रियते । तत्र प्रतापोष्मलपितृत्वदुरासदभगवत्संश्रयण-

सिद्धये,
पुरुषकारभूतवात्सल्यनिर्भरलक्ष्मी 'समाश्रयणं' श्रीमच्छब्दविवरणमुखेनाऽभिधीयते ।
 
सिद्धये,
 

 
यद्वा श्रियं प्रपद्य तत्सन्निधौ मूलमन्त्रेण स्वरूपानुरूपपुरुषार्थप्रार्थनं तदुपायप्रार्थनापर्यन्तं

कृत्वा, तदनुज्ञया द्वयमनुसन्धीयत इति पूर्वाचार्यानुसन्धानमनुस्मरन् प्रथमं श्रियं प्रपद्यते

भगवत् इति ।
 
KAYAURYAGRUABRUAÜRÜPÜRÜDÜRÜPÜRÜZÜZÜSURUAURYAVRUA
 
शरणागतिगद्यम् -
 

 
र.र. - एवमपि सुकृतविशेषैरेव लक्ष्मीप्रपत्तिवत्, भगवत्प्रपत्तिरप्यस्तु; मैवम्,

तदर्थ एव ह्ययं सुकृतविशेषः । न चात्रापि पूर्ववदशक्यत्वचोदना; स्वतन्त्रबुद्ध्यैव पूर्
वं
तावन्मात्रशक्तिप्रदानात्, तदभिप्रायेण ह्युक्तम् । भगवता शौनकेन - 'वाचः परं प्रार्थयिता

प्रपद्येन्नियतश्श्रियम्' (शौ. सं.) इति । श्रीसात्वते च -
 
सा चैवं स्वयमाह
 

 
'यामालम्ब्य सुखेनेमं दुस्तरं हि गुणोदधिम् ।
 

निस्तरन्त्यचिरेणैव व्यक्तध्यानपरायणाः' ॥ (सा. सं. १२-८४) इति ।
 

 
सा चैवं स्वयमाह-
 
'प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे ।
 

मामेकां देवदेवस्य महिषीं शरणं श्रयेत्' ॥ (ल.तं. १७-१०२) इति ।

न चैवम्, 'तदर्थमपि'[^१] प्रपत्यन्तरा पेक्षया[^२] अनवस्थादिप्रसङ्गः । स्वतन्त्रसंकल्पेन

व्यवस्थितत्वात् सामग्रीविशेषाणाम् । सामग्रीप्रवाहानवस्था तु सर्वस्मिन्नपि कार्ये

सर्वैस्सिद्धान्तिभिस्स्वीकर्तव्या; स्वीकृता चेति नासौ दोषः ।
 

 
अतोऽपवर्गार्थभगवत्प्रपत्तिसिद्धये -
 

 
'यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।
 

आत्मविद्या च देवि ! त्वं विमुक्तिफलदायिनी' ॥ (वि.पु. १ ९-१२०)

'विद्यासहायवन्तं मामादित्यस्थं सनातनम्, (म.भा. शां. ३४७-६९)
 

 
इत्यादिभिः सर्वविद्याप्रवर्तकतया तत्तद्विद्यात्वेन निर्दिष्टां सम्यग्ज्ञानव्यवसायोपायादिप्रदाने

विशेषाधिकारवतीमनुग्रहै कस्वभावां श्रियमादौ प्रपद्यते
 
- भगवत् इति । अत्र
 

'अशरण्यशरण्याम्' इति वक्ष्यमाणस्योपयुक्ताः विशेषाः नवभिः पदैः ख्याप्यन्ते ।
 
1.

------------
[^१]
तदर्थं आ । 2. [^२] पेक्षायां - आ ।
 
-
 
-