This page has not been fully proofread.

श्रु.भा. - उपायोपेयपरं द्वयं विशदीक्रियते । तत्र प्रतापोष्मलपितृत्वदुरासदभगवत्संश्रयण-
पुरुषकारभूतवात्सल्यनिर्भरलक्ष्मी 'समाश्रयणं' श्रीमच्छब्दविवरणमुखेनाऽभिधीयते ।
 
सिद्धये,
 
यद्वा श्रियं प्रपद्य तत्सन्निधौ मूलमन्त्रेण स्वरूपानुरूपपुरुषार्थप्रार्थनं तदुपायप्रार्थनापर्यन्तं
कृत्वा, तदनुज्ञया द्वयमनुसन्धीयत इति पूर्वाचार्यानुसन्धानमनुस्मरन् प्रथमं श्रियं प्रपद्यते
भगवत् इति ।
 
KAYAURYAGRUABRUAÜRÜPÜRÜDÜRÜPÜRÜZÜZÜSURUAURYAVRUA
 
शरणागतिगद्यम् -
 
र.र. - एवमपि सुकृतविशेषैरेव लक्ष्मीप्रपत्तिवत्, भगवत्प्रपत्तिरप्यस्तु; मैवम्,
तदर्थ एव ह्ययं सुकृतविशेषः । न चात्रापि पूर्ववदशक्यत्वचोदना; स्वतन्त्रबुद्ध्यैव पूर्व
तावन्मात्रशक्तिप्रदानात्, तदभिप्रायेण ह्युक्तम् । भगवता शौनकेन - 'वाचः परं प्रार्थयिता
प्रपद्येन्नियतश्श्रियम्' (शौ. सं.) इति । श्रीसात्वते च -
 
सा चैवं स्वयमाह
 
'यामालम्ब्य सुखेनेमं दुस्तरं हि गुणोदधिम् ।
 
निस्तरन्त्यचिरेणैव व्यक्तध्यानपरायणाः' ॥ (सा. सं. १२-८४) इति ।
 
'प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे ।
 
मामेकां देवदेवस्य महिषीं शरणं श्रयेत्' ॥ (ल.तं. १७-१०२) इति ।
न चैवम्, 'तदर्थमपि' प्रपत्यन्तरापेक्षया अनवस्थादिप्रसङ्गः । स्वतन्त्रसंकल्पेन
व्यवस्थितत्वात् सामग्रीविशेषाणाम् । सामग्रीप्रवाहानवस्था तु सर्वस्मिन्नपि कार्ये
सर्वैस्सिद्धान्तिभिस्स्वीकर्तव्या; स्वीकृता चेति नासौ दोषः ।
 
अतोऽपवर्गार्थभगवत्प्रपत्तिसिद्धये -
 
'यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।
 
आत्मविद्या च देवि ! त्वं विमुक्तिफलदायिनी' ॥ (वि.पु. १ ९-१२०)
'विद्यासहायवन्तं मामादित्यस्थं सनातनम्, (म.भा. शां. ३४७-६९)
 
इत्यादिभिः सर्वविद्याप्रवर्तकतया तत्तद्विद्यात्वेन निर्दिष्टां सम्यग्ज्ञानव्यवसायोपायादिप्रदाने
विशेषाधिकारवतीमनुग्रहै कस्वभावां श्रियमादौ प्रपद्यते
 
भगवत् इति । अत्र
 
'अशरण्यशरण्याम्' इति वक्ष्यमाणस्योपयुक्ताः विशेषाः नवभिः पदैः ख्याप्यन्ते ।
 
1. तदर्थं आ । 2. पेक्षायां - आ ।
 
-
 
-