This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
र.र. - पितरम् इत्यादिभिः जितन्ताविशेषभगवद्गीतादिपठितैः उक्तसंवाद कैरुपबृंहण-
ग्रन्थैः प्रस्तुतोपायविशेषपरिग्रहं शरण्यस्वभावानुसन्धानपूर्वकं प्राप्यविरोधिनिवृत्तिप्रार्थनांशं
च प्रपञ्चयिष्यमाणद्वयार्थतया सङ्ग्रहेण सङ्कलय्याह । मनोवाक्कायैः इत्यादिभिः,
अर्थक्रमेण नमश्शब्दार्थ विवरणपूर्वकं चतुर्थ्यभिप्रेतपरमपुरुषार्थप्रार्थना प्रकाश्यते । प्रतिवचन-
वाक्यैस्तु, प्रकृताधिकारिनिर्भरत्वाय स्वीकृतभरस्य शरण्यस्य स्वाभाविक दयार्द्रमुत्तरखण्डोक्त-
परमफलाङ्कुरकल्पमभिप्रायं व्यवृणुत । अतः कृत्स्त्रमिदं गद्यं द्वयविवरणमिति साधीयान्
सम्प्रदायः ।
 
[पूर्वोत्तरकृत्यादिकम्]
 
इह[^1] भगवत्प्रपदने समुद्यतस्य सम्यग्ज्ञानसम्पादनपुरुषकारपुरस्कारा दिकं पूर्वकृत्यम् ।
साङ्गस्वरक्षाभरसमर्पणं तत्कालकृत्यम्, स्वनिष्ठानु सन्धानपूर्वकं स्वाधिकारोचित कैङ्क-
र्यादिक
[^2]कैङ्कर्यादिक मुत्तरकृत्यम् । शरण्यस्य तु पूर्वकृत्यम् पुरुषकारप्ररोचनादिकम्; तत्कालकृत्यं समर्पित-
सर्वभरस्वीकरणम्; उत्तरकृत्यन्तु स्वयम्प्रयोजनभक्त्यादिप्रदानान्तिमदशा प्रबोधनप्रभृति परिपूर्ण-
'कैङ्कर्यरूपमुक्ति
[^3]कैङ्कर्यरूपमुक्ति प्रदानपर्यन्तम् । एतदखिलमिह शब्दतोऽर्थतश्च यथास्थानमनुसन्धेयम् ।

किञ्च -
'सम्बोधनैः परं तत्त्वं न्यासोक्त्या परमं हितम् ।
प्रार्थनाभिश्च परमः पुमर्थ इह दर्शितः ' ॥
 
[ लक्ष्मीप्रपदनस्य स्थिरीकरणम् ]

नन्वेवं सकलफलप्रदो भगवानेव तत्प्रपत्तिसिद्ध्यर्थमप्याश्रीयताम्, किमिह
लक्ष्मीप्रपदनेन? मैवम्; यदि भगवत्प्रपदनमिदानीं शक्यमिति निश्चिनुयात्, तदा मोक्षार्थमेव
तदुपाददीत; न पुनस्तदर्थं तत्प्रयुञ्जीत । अनिश्चिते तु शक्यत्वे नतराम्[^4];

ननु च विदितश्चेत्प्रपत्तिशास्त्रार्थः स च सुकरः; तदा स्वयमेव मोक्षार्थमनुष्ठी यताम् ?
मैवम्; दुष्करकर्माद्यङ्गविरहात् सौकर्येऽपि महाविश्वासाद्यङ्गक प्रपत्तिस्वरूपे, 'श्रूयते
किल गोविन्दे' (वि.ध. २-२५) 'सत्यं शतेन विघ्नानाम् ' , (वि.ध. ७०-८४) इत्यादि-
न्यायेन सम्भवत्प्रतिबन्धे मात्रया दौष्कर्यात् । उक्तञ्च 'उपायस्सुकरस्सोऽयं दुष्करश्च
मतो मम' (ल.तं. १७-१०४) इति । अतः 'स्थिते मनसि' (व.च. श्लो) इत्यादिप्रक्रियया
विषयतस्स्वरूपतश्च विशिष्टाकारप्रपत्त्यनुष्ठाने प्राप्याऽभिलाषप्रापकाध्यवसाय-
प्रापकान्तराऽनन्व यानुवृत्त्यनुगुणमनस्समाधानाद्यर्थमिह तत्प्रार्थनं युक्तम् ।
------------------
[^1] इह च अ ।
[^2] कैङ्कर्य - आ ।
[^3] कैङ्कर्य - आ ।
[^4] नितराम् - अ ।