This page has not been fully proofread.

शरणागतिगद्यम् -
श्रु. भा. - वरदं द्विरदाद्रीशं श्रीनिधिं करुणानिधिम् ।
शरण्यं शरणं यामि प्रणतार्तिहरं हरिम् ॥
 
[गुरुवन्दनं - प्रतिज्ञा च]
र.र.- प्रख्यातश्रुतविभवान् गुरूनशेषान्
प्रश्रित्य प्रणयति वेङ्कटेशसूरिः ।
लक्ष्मीशप्रपदनवैभवप्रतिष्ठां
रागान्ध्यप्रशमकरीं रहस्यरक्षाम् ॥ १ ॥
लक्ष्मीपतेर्यतिपतेश्च दयैकधाम्नो योऽसौ पुरा समजनिष्ट जगद्धितार्थम् ।
प्राच्यं प्रकाशयतु नः परमं रहस्यं संवाद एष शरणागतिमन्त्रसारः ॥ २ ॥
 
[अवतारिका]
 
अत्र भगवान् भाष्यकारः सदाचार्यसम्प्रदायागतद्वयवचनेन स्वयमनुष्ठितं न्यासाख्य-
विद्याविशेषं स्वानुबन्धिसञ्जिजीवयिषया यथावत्प्रकाशयन् 'सीतामुवाचातियशा राघवञ्च
महाव्रतम्', (रा.अयो.३१-२) 'सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत्' (रा.अर.१५-६) इत्यादिप्रकारेण
श्रीप्रपत्तितदनुग्रहपूर्वकं स्वस्य भगवता सञ्जातं स्वयंप्रयोजनसंवादविशेषं निबध्नाति ।
 
प्रतिवचनांशस्तु शरणागतिवशीकृतशरण्याभिप्रायविशेषोन्नयनेन निबध्यत इत्येके ।
इह सम्पत्स्यते इत्यन्तं श्रीमच्छब्दाभिप्रेतप्रदर्शनम् । अखिल इत्यादिकम् अशरण्यशरण्य!
इत्यन्तं नारायणशब्दार्थविवरणम् । तन्मध्ये श्रीमन्नारायण इति द्विः पठनं उपायोपेयवाक्ययोः
सिद्धरूपप्रधानांशव्यञ्जनम् । अनन्यशरणोऽहम् इत्युत्तमपुरुषाभिप्रेताधिकारिविशेषोक्तिः ।
त्वत्पादारविन्दयुगलम् इत्यादिकमप्यर्थतस्स्वरूपतश्च मान्त्रवर्णिकपदज्ञापकम् । एवं प्रधानतमेन
सिद्धो पायेन[^१] सिद्ध[^२] प्राप्येन च सह महा 'वाक्यार्थ'[^1] पर्यवसानभूमितया शाब्दप्राधान्यवान्
साध्योपायांशो[^३] दर्शितः। 'साध्यप्राप्यम्[^४] अपि पारमार्थिक इत्यादिना संक्षिप्तमिति ज्ञापयितुं
मध्ये द्वयम् इति व्याख्येयसमाख्यानिर्देशः ।
-------------
[^१] उपायेन उपायभूतब्रह्मणः पुरुषव्यापारासाध्यतया सिद्धोपायत्वम्- 'फलमत उपपत्तेः' इति सूत्राभिप्रेतम् ।
[^२] सिद्ध - एवं विभूतिद्वयविशिष्टब्रह्मणः प्राप्यत्वेन तस्यापि व्यापारासाद्ध्यतया सिद्धप्राप्यत्वम् 'परं ज्योतिरुपसम्पद्य स्वेन
रूपेणाभिनिष्पद्यते' इति सूत्रारूढमिदम् ।
[^३]साध्योपायांश: - निदिध्यासनस्य, प्रपत्तेर्वा पुरुषव्यापारसाध्यत्वात् साध्योपायशब्दवाच्यता - 'पुरुषार्थोऽतः शब्दादिति
बादरायणः' इति विद्यातः पुरुषार्थसाधनात् । अत्र विद्यापदन्यास विद्यासाधारणं व्यवहितसाधनमिदम् । अव्यवहितसाधनन्तु
'फलमत उपपत्तेः' इत्युक्तरीत्या ब्रह्मैवेति बोध्यम् । अन्यथा पूर्वापरविरोध: स्यात् ।
[^४] साध्यप्राप्यम् - एवं मुक्तिकाले यथाभिमतकैङ्कर्यस्यापि स्वव्यापारसाध्यतया प्राप्यतया च साध्यप्राप्यत्वम् । 'द्वादशाहवत्
उभयविधं बादरायणः' इति सूत्रसद्धम् । शरीरपरिग्रहस्य भगवत्कैङ्कर्यार्थत्वात्, न तु स्वभोगाय इति बोद्ध्यम् ।
 
[^1]. वाक्य - अ ।