2023-04-21 08:58:26 by jayusudindra
This page has been fully proofread once and needs a second look.
श्रीधराय नमः
श्रियै नमः
श्रीमते रामानुजाय नमः
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-
व्यामोहतस्तदितराणि 'तृणाय'[^१] मेने ।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥
श्रीभगवद्रामानुजाचार्यविरचिते गद्यत्रये
शरणागति गद्यम्[^२]
[ वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् ।
रामानुजार्यमार्याणां चूडामणिमहर्निशम् ॥]
यतीन्द्रकृतभाष्यार्था यद्व्याख्यानेन दर्शिताः ।
वरं सुदर्शनार्यं तं वन्दे कूरकुलाधिपम् ॥
श्रीसुदर्शनभट्टार्यप्रणीतं श्रीमच्छ्रुतप्रकाशिकाभिधानं
शरणागतिगद्यव्याख्यानम् ।
श्रीमान्वेंकटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
श्रीवेदान्तदेशिकप्रणीतं पृथुगद्याधिकारनामकं
शरणागतिगद्यस्य व्याख्या रहस्यरक्षा
-----------
१. तृणाय - 'मन्यकर्मण्यनादरे विभाषाऽप्राणिषु' (पा.सू.२-३-१७) इति सूत्रेणानादरे द्योत्ये कर्मणि चतुर्थी वा स्यात् । (इति चतुर्थी)
२. शरणागतिगद्यम् - शरणार्थं संसारात् संरक्षणार्थं 'आ - समन्तात् सर्वप्रकारेण', प्रार्थनापूर्वकं 'गतिः'-
गमनम् - -अवलम्बनम् - -आत्मसमर्पणम् - -शरणागतिः । शरणागतिः - (प्रपत्तिः) - मोक्षसाधनोपायः;
तदधिकृत्य कृतं गद्यम् शरणागतिगद्यम् ॥

गमनम्
तदधिकृत्य कृतं गद्यम् शरणागतिगद्यम् ॥