This page has not been fully proofread.

श्रीधराय नमः
श्रियै नमः
श्रीमते रामानुजाय नमः
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-
व्यामोहतस्तदितराणि 'तृणाय' मेने ।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥
श्रीभगवद्रामानुजाचार्यविरचिते गद्यत्रये
 

 
शरणागति गद्य म्
[ वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् ।
रामानुजार्यमार्याणां चूडामणिमहर्निशम् ॥]
***********
 
यतीन्द्रकृतभाष्यार्था यद्व्याख्यानेन दर्शिताः ।
वरं सुदर्शनार्यं तं वन्दे कूरकुलाधिपम् ॥
श्रीसुदर्शनभट्टार्यप्रणीतं श्रीमच्छ्रुतप्रकाशिकाभिधानं
शरणागतिगद्यव्याख्यानम् ।
 
GAVAURUAUPUNURUNURYAGRÜTEKÜAVRUAUZGAÜRÜAURUAURUA
 
१.
 
२.
 
श्रीमान्वेंकटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
 
श्रीवेदान्तदेशिकप्रणीतं पृथुगद्याधिकारनामकं
शरणागतिगद्यस्य व्याख्या रहस्यरक्षा
 
तृणाय - 'मन्यकर्मण्यनादरे विभाषाऽप्राणिषु' (पा.सू.२-३-१७) इति सूत्रेणानादरे द्योत्ये कर्मणि चतुर्थी वा
स्यात् । (इति चतुर्थी)
 
-
 
शरणागतिगद्यम् - शरणार्थं संसारात् संरक्षणार्थं 'आ - समन्तात् सर्वप्रकारेण प्रार्थनापूर्वकं 'गतिः'
गमनम् - अवलम्बनम् - आत्मसमर्पणम् - शरणागतिः । शरणागतिः - (प्रपत्तिः) - मोक्षसाधनोपायः;
तदधिकृत्य कृतं गद्यम् शरणागतिगद्यम् ॥