2023-04-07 05:35:47 by ambuda-bot
This page has not been fully proofread.
सम्यगभिवन्दितैः तैस्तैरेवानुमतो भगवन्तमुपेत्य, श्रीमता मूलमन्त्रेण 'माम्
ऐकान्तिकात्यन्तिक परिचर्याकरणाय परिगृह्णीष्व' इति याचमानः प्रणम्य, आत्मानं
भगवते निवेदयेत् ॥ ४ ॥
-
xxvi
ततो भगवता, स्वयमेवात्मसञ्जीवनेन; अमर्यादशीलवता, अतिप्रेमान्वितेन
अवलोकनेनावलोक्य, सर्वदेश- सर्वकाल - सर्वावस्थोचितात्यन्त-शेषभावाय स्वीकृत;
अनुज्ञातश्च अत्यन्त - साध्वस- विनयावनतः, किङकुर्वाण, कृताञ्जलि पुटो
भगवन्तमुपासीत ॥ ५ ॥
-
ततश्चानुभूयमान - भावविशेषः, निरतिशय-प्रीत्या; अन्यत् किञ्चित् कर्तुं द्रष्टुं
स्मर्तुमशक्तः; पुनरपि शेषभावमेव याचमानो, भगवन्तमेव अविच्छिन्न स्रोतोरूपेण
अवलोकनेनावलोकयन् आसीत ॥ ६ ॥
-
ततो भगवता स्वयमेवात्मसञ्जीवनेन अवलोकनेनाऽवलोक्य, सस्मितमाहूय;
समस्त क्लेशापहं, निरतिशय सुखावहम् आत्मीयं, श्रीमत्पादारविन्दयुगलं, शिरसि
कृतं ध्यात्वा; अमृत-सागरान्तर्निमग्न - सर्वावयवः सुखमासीत ॥ ७ ॥
॥ इति श्रीभगवद्रामानुजविरचितं श्रीवैकुण्ठगद्यं सम्पूर्णम् ॥
॥ इति श्रीभगवद्रामानुजविरचितं गद्यत्रयं सम्पूर्णम् ॥
॥ श्रीमते रामानुजाय नमः ॥