This page has not been fully proofread.

XXV
 
ग्रैवेयक-हार- केयूर- कटक - श्रीवत्स - कौस्तुभ-मुक्तादामोदरबन्धन- पीताम्बर - काञ्ची-गुण-

नूपुरादिभिः अत्यन्त -सुखस्पर्शेर्दिव्यगन्धैः दिव्यभूषणैर्भूषितम्, श्रीमत्या वैजयन्त्या

वनमालया विराजितम् ; शङ्ख-चक्र-गदाऽसि - शाङ्गदि - दिव्यायुधैः सेव्यमानम्;

स्वसङ्कल्पमात्रावलृप्त- जगज्जन्म - स्थिति- ध्वंसादिके, श्रीमति, विष्वक्सेने, न्यस्त-

समस्तात्मैश्वर्यम्; वैनतेयादिभिः स्वभावतो- निरस्त - समस्त - सांसारिक-स्वभावैः;

भगवत्परिचर्या- करण- योग्यैः, भगवत्परिचर्यैक- भोगैः; नित्य-सिद्धैः, अनन्तैः यथायोगं

सेव्यमानम्; आत्मभोगेनानुसंहित- परादि-काल- दिव्यामल कोमलावलोकनेन,

विश्वमाह्लादयन्तम्; ईषदुन्मीलित-मुखाम्बुजोदर - विनिर्गतेन, दिव्याननारविन्द-

शोभाजनकेन; दिव्य-गाम्भीर्य- औदार्य-सौन्दर्य - माधुर्याद्यनवधिक-गुण-गण-विभूषितेन,

अतिमनोहर- दिव्य - भाव-गर्भेण; दिव्यलीलालापामृतेन अखिल-जन-हृदयान्तराणि

आपूरयन्तं ; भगवन्तं नारायणम्, ध्यानयोगेन दृष्ट्वा;
 

 
ततो भगवतो नित्यस्वाम्यम् आत्मनो नित्यदास्यं च यथावस्थितम्

अनुसन्धाय;
 
-
 

 
'कदाऽहं भगवन्तं, नारायणं, मम नाथम्, मम कुलदैवतम्, मम कुलधनम्,

मम भोग्यम्, मम मातरम्, मम पितरम्, मम सर्वम्, साक्षात्करवाणि चक्षुषा !'

'कदाऽहं भगवत्पादाम्बुज-द्वयं शिरसा सङ्ग्रहिष्यामि !'
 

 
'कदाऽहं भगवत्पादाम्बुज-द्वय परिचर्याशया निरस्त- समस्तेतर- भोगाशः,

अपगत - समस्त - सांसारिक - स्वभावः, तत्पादाम्बुज-द्वयं प्रवेक्ष्यामि !'
 

 
'कदाऽहं भगवत्पादाम्बुज-द्वय- परिचर्या- करणयोग्य तदेकभोगः, तत्पादौ

परिचरिष्यामि!' 'कदा मां भगवान् स्वकीयया अतिशीतलया दृशाऽवलोक्य, स्निग्ध-

गम्भीर - मधुरया गिरा परिचर्यायाम् आज्ञापयिष्यति !' इति, भगवत्परिचर्यायाम्

आशां वर्धयित्वा:
 
-
 

 
तयैवाशया तत्प्रसादोपबृंहितया भगवन्तमुपेत्य, दूरादेव भगवन्तं शेषभोगे

श्रिया सहाऽऽसीनम्, वैनतेयादिभिः सेव्यमानम्, 'समस्तपरिवाराय श्रीमते नारायणाय

नमः' इति प्रणम्योत्थायोत्थाय, पुनः पुनः प्रणम्य, अत्यन्त-साध्वस- विनयावनतो

भूत्वा, भगवत्पारिषद- गणनायकैः, द्वारपालैः, कृपया स्नेहगर्भया दृशाऽवलोकितः,