2023-04-21 07:34:59 by jayusudindra
This page has been fully proofread once and needs a second look.
शतसहस्रकोटिभिरुपशोभिते; दिव्यनानारत्न - -कृतस्थल - -विचित्रिते; दिव्या लङ्कारालङ्कृते;
परितः पतितैः, पतमानैः, पादपस्थैश्च नानागन्धवर्णैः, दिव्यपुष्पैश्शोभमानैः,
दिव्यपुष्पोपवनैरुपशोभिते; सङ्कीर्ण-पारिजातादि - कल्पद्रुमोपशोभितैः, असङ्कीर्णेश्च
कैश्चित् अन्तस्थ - -पुष्परत्नादि-निर्मित- दिव्य- लीलामण्टप-शतसहस्रोपशोभितैः,
सर्वदाऽनुभूयमानैरपि अपूर्ववत् आश्चर्यमावहद्भिः, क्रीडाशैलशतसहस्त्रैरलङ्ङ्कृतैः;
कैश्चिन्नारायण-दिव्य-लीलाऽसाधारणैः, कैश्चित् पद्मवनालया- दिव्यलीलाऽ साधारणैः;
साधारणैश्च कैश्चित्, शुक - -शारिका - -मयूर - -कोकिलादिभिः कोमलकूजितै राकुलैः;
दिव्योद्यान - शतसहस्त्रैरावृते; मणि-मुक्ता- प्रवाल- कृत सोपाननै:; दिव्या मलामृत-
रसोदकैः, दिव्याण्डजवरैः; अतिरमणीयदर्शनै: अतिमनोहर-मधुर स्वरैराकुलैः;
अन्तस्स्थ - -मुक्तामय-दिव्यक्रीडास्थानोपशोभितैः; दिव्य-सौगन्धिक-वापी-शत- सहस्त्रैः;
रै; दिव्यराजहंसावलीविराजितैरावृते; निरस्ता तिशयानन्दैकरसतया च आनन्त्याच्च,
प्रविष्टानुन्मादयद्भिः, क्रीडोद्देशैर्वि राजिते; तत्रतत्रकृत- दिव्य पुष्प - -पर्यङ्कोपशोभिते;
नाना - पुष्पासवास्वाद- मत्त - -भृङ्गावलीभिः उद्गीयमान- दिव्य-गान्धर्वेणापूरिते;
चन्दनागुरु - -कर्पूर - दिव्य - दिव्य-पुष्पावगाहि-मन्दानिला सेव्यमाने; मध्ये पुष्पसञ्चयविचित्रिते;
महति ; दिव्ययोगपर्यङ्के, अनन्तभोगिनि; श्रीमद्वैकुण्ठैश्वर्यादि- दिव्यलोकम् आत्म-
कान्त्या विश्वमाप्याययन्त्या, शेषशेषाशनादि सर्वं परिजनं भगवतः तत्तदवस्थोचित -
-परिचर्यायाम् आज्ञापयन्त्या, शील-रूप-गुण-विलासादिभिः आत्मानुरूपया, श्रिया,
सहासीनम्; प्रत्यग्रोन्मीलित- सरसिज-सदृश - -नयन युगलम्, स्वच्छनील जीमूत-
सङ्काशम; अत्युज्वल - -पीतवाससम्; स्वया प्रभया अतिनिर्मलया अतिशीतलया
स्वच्छमाणिक्याभया कृत्स्नं जगद्भास यन्तम्; अचिन्त्य - -दिव्याद्भुत-नित्ययौवनस्वभाव-
लावण्यमयामृतसागरम्; अतिसौकुमार्यात् ईषत्प्रस्विन्नवदालक्ष्यमाण- ललाट- फलक-
दिव्यालका वली - -विराजितम्; प्रबुद्ध -मुग्धाम्बुज - -चारु- लोचनम्; स-विभ्रम -भ्रूलतम्
उज्वलाधरम्; शुचिस्मितम्; कोमल- गण्डमुन्नसम्; उदग्र - -पीनांस - -विलम्बि-कुण्डल-
अलकावली - -बन्धुर -कम्बु - -कन्धरम्; प्रियावतंसोत्पल- कर्णभूषण-श्लथालकाबन्ध-
विमर्दशंसिभि: चतुर्भिराजानुविलम्बिभिर्भुजैः विराजितम् ; अतिकोमल- दिव्य-
दिव्य-रेखालङ्कृताताम्रकरतलम्; दिव्याङ्गुलीयक- विराजितम्; अतिकोमल - दिव्य-
-दिव्य-नखावली - -विराजित - -अतिरक्ताङ्गुलीभिः अलङ्कृतम् ; तत्क्षणोन्मीलित-पुण्डरीक-
सरसिज-सदृश-चरण-युगलम्; अतिमनोहर- किरीट- मकुट-चूडाऽवतंस-मकरकुण्डल-
दिव्योद्यान
कान्त्या विश्वमाप्याययन्त्या, शेषशेषाशनादि सर्वं परिजनं भगवतः तत्तदवस्थोचित
उज्वलाधरम्; शुचिस्मितम्; कोमल-