This page has not been fully proofread.

xxxiv
 
शतसहस्रकोटिभिरुपशोभिते; दिव्यनानारत्न - कृतस्थल - विचित्रिते; दिव्यालङ्कारालङ्कृते;

परितः पतितैः, पतमानैः, पादपस्थैश्च नानागन्धवर्णैः, दिव्यपुष्पैश्शोभमानैः,

दिव्यपुष्पोपवनैरुपशोभिते; सङ्कीर्ण-पारिजातादि - कल्पद्रुमोपशोभितैः, असङ्कीर्णेश्च

कैश्चित् अन्तस्थ - पुष्परत्नादि-निर्मित- दिव्य- लीलामण्टप-शतसहस्रोपशोभितैः,

सर्वदाऽनुभूयमानैरपि अपूर्ववत् आश्चर्यमावहद्भिः, क्रीडाशैलशतसहस्त्रैरलङ्‌ङ्कृतैः;

कैश्चिन्नारायण-दिव्य-लीलाऽसाधारणैः, कैश्चित् पद्मवनालया- दिव्यलीलाऽ साधारणैः;

साधारणैश्च कैश्चित्, शुक - शारिका - मयूर - कोकिलादिभिः कोमलकूजितैराकुलैः;

दिव्योद्यान - शतसहस्त्रैरावृते; मणि-मुक्ता- प्रवाल- कृत सोपान:; दिव्यामलामृत-

रसोदकैः, दिव्याण्डजवरैः; अतिरमणीयदर्शनै: अतिमनोहर-मधुर स्वरैराकुलैः;

अन्तस्स्थ - मुक्तामय-दिव्यक्रीडास्थानोपशोभितैः; दिव्य-सौगन्धिक-वापी-शत- सहस्त्रैः;

दिव्यराजहंसावलीविराजितैरावृते; निरस्तातिशयानन्दैकरसतया च आनन्त्याच्च,

प्रविष्टानुन्मादयद्भिः, क्रीडोद्देशैर्विराजिते; तत्रतत्रकृत- दिव्य पुष्प - पर्यङ्कोपशोभिते;

नाना - पुष्पासवास्वाद- मत्त - भृङ्गावलीभिः उद्गीयमान- दिव्य-गान्धर्वेणापूरिते;

चन्दनागुरु - कर्पूर - दिव्य पुष्पावगाहि-मन्दानिला सेव्यमाने; मध्ये पुष्पसञ्चयविचित्रिते;

महति ; दिव्ययोगपर्यङ्के, अनन्तभोगिनि; श्रीमद्वैकुण्ठैश्वर्यादि- दिव्यलोकम् आत्म-

कान्त्या विश्वमाप्याययन्त्या, शेषशेषाशनादि सर्वं परिजनं भगवतः तत्तदवस्थोचित -

परिचर्यायाम् आज्ञापयन्त्या, शील-रूप-गुण-विलासादिभिः आत्मानुरूपया, श्रिया,

सहासीनम्; प्रत्यग्रोन्मीलित- सरसिज-सदृश - नयनयुगलम्, स्वच्छनील जीमूत-

सङ्काशम; अत्युज्वल - पीतवाससम्; स्वया प्रभया अतिनिर्मलया अतिशीतलया

स्वच्छमाणिक्याभया कृत्स्नं जगद्भासयन्तम्; अचिन्त्य - दिव्याद्भुत-नित्ययौवनस्वभाव-

लावण्यमयामृतसागरम्; अतिसौकुमार्यात् ईषत्प्रस्विन्नवदालक्ष्यमाण- ललाट- फलक-

दिव्यालकावली - विराजितम्; प्रबुद्ध -मुग्धाम्बुज - चारु- लोचनम्; स-विभ्रम भ्रूलतम्

उज्वलाधरम्; शुचिस्मितम्; कोमल- गण्डमुन्नसम्; उदग्र - पीनांस - विलम्बि-कुण्डल-

अलकावली - बन्धुर कम्बु - कन्धरम्; प्रियावतंसोत्पल- कर्णभूषण-श्लथालकाबन्ध-

विमर्दशंसिभि: चतुभिराजानुविलम्बिभिर्भुजैः विराजितम् ; अतिकोमल- दिव्य-

रेखालङ्कृताताम्रकरतलम्; दिव्याङ्गुलीयक- विराजितम्; अतिकोमल - दिव्य-

नखावली - विराजित - अतिरक्ताङ्गुलीभिः अलङ्कृतम् ; तत्क्षणोन्मीलित-पुण्डरीक-

सरसिज-सदृश-चरण-युगलम्; अतिमनोहर- किरीट- मकुट-चूडाऽवतंस-मकरकुण्डल-
-
 

 
-
 
1