This page has not been fully proofread.

श्रीधराय नमः
श्रियै नमः
श्रीमते रामानुजाय नमः
श्रीभगवद्रामानुजविरचिते गद्यत्रये
श्री वैकुण्ठ गद्य म्
 
यामुनार्यसुधाम्भोधिम् अवगाह्य यथामति ।
आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम् ॥ १ ॥
 
स्वाधीन - त्रिविध - चेतनाचेतन स्वरूप स्थिति -प्रवृत्ति-भेदम्, क्लेशकर्माद्यशेष-
दोषासंस्पृष्टम् स्वाभाविकानवधिकातिशय ज्ञान - बलैश्वर्य वीर्य-शक्ति- तेज:-
प्रभृत्यसङ्घचेयकल्याणगुणगणौघ-महार्णवम्; परमपुरुषं, भगवन्तं नारायणम् ;
स्वामित्वेन, सुहृत्वेन, गुरुत्वेन च, परिगृह्य; ऐकान्तिकात्यन्तिक-तत्पादाम्बुजद्वय-
परिचर्यैकमनोरथः, तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेः, अन्यन्न मे कल्पकोटिसहस्रेणाऽपि
साधनमस्तीति मन्वानः, तस्यैव भगवतो नारायणस्य; अखिल-सत्त्वदयैक-सागरस्य,
अनालोचित-गुणगणाखण्डजनानुकूलामर्यादशीलवतः, स्वाभाविक - अनवधिकातिशय-
गुणवत्तया, देव- तिर्यङ्-मनुष्याद्यखिलजन-हृदयानन्दनस्य; आश्रित-वात्सल्यैकजलधेः,
भक्तजन-संश्लेषैकभोगस्य; नित्य-ज्ञान-क्रियैश्वर्यादि- भोग-सामग्री-समृद्धस्य, महा-
विभूते: श्रीमतः चरणारविन्दयुगलम्; अनन्यात्म-सञ्जीवनेन तद्गत सर्वभावेन,
शरणमनुव्रजेत् ॥ २ ॥
 
ततश्च प्रत्यहम् आत्मोज्जीवनायैवमनुस्मरेत् ॥ ३ ॥
 
1
 
चतुर्दशभुवनात्मकमण्डम्, दशगुणितोत्तरं च आवरणसप्तकम्; समस्तं
कार्यकारणजातमतीत्य; परमव्योमशब्दाभिधेये; ब्रह्मादीनां वाङ्मनसागोचरे; श्रीमति
वैकुण्ठे, दिव्यलोके; सनक - विधि-शिवादिभिरप्यचिन्त्यस्वभावैश्वर्यैः, नित्यसिद्धैः, अनन्तैः,
भगवदानुकूल्यैकभोगैः, दिव्यपुरुषैः महात्मभिरापूरिते, तेषामपि, इयत्परिमाणम्,
इयदैश्वर्यम्, ईदृशस्वभावम्, इति परिच्छेत्तुमयोग्ये; दिव्यावरण- शतसहस्त्रावृते;
दिव्यकल्पकतरूपशोभिते; दिव्योद्यान- शतसहस्रकोटिभिरावृते; अतिप्रमाणे,
दिव्यायतने, कस्मिंश्चित् विचित्रदिव्यरत्नमय-दिव्यास्थानमण्टपे; दिव्यरत्नस्तम्भ-
"