This page has been fully proofread once and needs a second look.

एवमवस्थितस्याऽपि अर्थित्वमात्रेण परमकारुणिको भगवान्; स्वानुभव प्रीत्योपनीतैकान्तिकात्यन्तिक-नित्यकैङ्कर्यैकरतिरूप-नित्यदास्यं दास्यतीति विश्वासपूर्वकं; भगवन्तं नित्यकिङ्करतां प्रार्थये ॥ ३ ॥
तवाऽनुभूति-सम्भूत-प्रीति-कारित-दासताम् ।
देहि मे कृपया नाथ ! न जाने गतिमन्यथा ॥ ४ ॥
सर्वावस्थोचिताशेष-शेषतैकरतिस्तव ।
भवेयं पुण्डरीकाक्ष! त्वमेवैवं कुरुष्व! माम् ॥ ५ ॥
एवम्भूत-तत्त्वयाथात्म्यावबोध-तदिच्छारहितस्यापि, एतदुच्चारणमात्रा वलम्बनेन; उच्यमानार्थ-परमार्थनिष्ठं मे मनः त्वमेवाद्यैव कारय! ॥ ६ ॥
अपारकरुणाम्बुधे! अनालोचितविशेषाशेषलोकशरण्य! प्रणतार्तिहर!
आश्रितवात्सल्यैकमहोदधे! अनवरतविदित-निखिल-भूतजात-याथात्म्य !
सत्यकाम! सत्यसङ्कल्प! आपत्सख! काकुत्स्थ ! श्रीमन् ! नारायण!
पुरुषोत्तम! श्रीरङ्गनाथ! मम नाथ!नमोऽस्तु ते ॥ ७ ॥
 
॥ इति श्रीभगवद्रामानुजविरचितं श्रीरङ्गद्यं सम्पूर्णम् ॥
॥ श्रीमते रामानुजाय नमः ॥