2023-04-21 06:16:50 by jayusudindra
This page has been fully proofread once and needs a second look.
श्रीधराय नमः
श्रियै नमः
श्रीमते रामानुजाय नमः
श्रीभगवद्रामानुजविरचिते गद्यत्रये
श्रीरङ्गगद्यम्
[चिदचित्परतत्त्वानां तत्त्वयाथात्म्यवेदिने ।
रामानुजाय मुनये नमो मम गरीयसे ॥]
स्वाधीन - -त्रिविधचेतनाचेतन-स्वरूप - -स्थिति- प्रवृत्ति-भेदम्, क्लेश-
कर्माद्यशेषदोषासंस्पृष्टम्, स्वाभाविकानवधिकातिशय-ज्ञान- बलैश्वर्य-वीर्य-शक्ति- तेज:-
सौशील्य- वात्सल्य - -मार्दवार्जव-सौहार्द-साम्य-कारुण्य-माधुर्य-गाम्भीर्य- औदार्य -चातुर्य-
स्थैर्य-धैर्य-शौर्य-पराक्रम- सत्यकाम- सत्यसङ्कल्प-कृतित्व-कृतज्ञताद्यसङ्ख्येय-कल्याण-
गुणगणौघ-महार्णवम्; परब्रह्मभूतम्, पुरुषोत्तमम्, श्रीरङ्गशायिनम् अस्मत्-
स्वामिनम्, प्रबुद्ध-नित्यनियाम्य-नित्य- दास्यैक- रसात्म-स्वभावोऽहम्, तदेकानुभव: ;
तदे कप्रियः; परिपूर्णं- भगवन्तम् ; विशदतमानुभवेन निरन्तरमनुभूय;
तदनुभवजनितानवधिकातिशय - -प्रीतिकारित-अशेषावस्थोचिताशेषशेषतै करतिरूप-
नित्यकिङ्करो भवानि ! ॥ १ ॥
स्वात्म-नित्यनियाम्य-नित्यदास्यैक रसात्मस्वभावानुसन्धानपूर्वक -
-भगवदन वधिकातिशय-स्वाम्याद्यखिलगुणगणानुभवजनित - अनवधिकातिशय-
प्रीतिकारिता अशेषावस्थोचिताशेष-शेषतैकरतिरूप- नित्यकैङ्ङ्कर्य प्राप्त्युपायभूत-
भक्ति - -तदुपाय - -सम्यग्ज्ञान-तदुपाय- समीचीनक्रिया - तदनुगुण- सात्त्विकताऽऽस्तिक्यादि-
समस्तात्म-गुण-विहीनः ; दुरुत्तरानन्त- तद्विपर्ययज्ञानक्रियानुगुणानादि-पापवासना-
महार्णवान्तर्निमग्नः ; तिलतैलवत् - वत-दारुवह्निवत् दुर्विवेच- त्रिगुण-क्षणक्षरण-स्वभाव-
अचेतन - -प्रकृति-व्याप्तिरूप-दुरत्यय - -भगवन्माया -तिरोहित- स्वप्रकाश: ; अनाद्यविद्या-
सञ्चित - -अनन्ताशक्य-विस्रंसन-कर्मपाश - -प्रग्रथितः, अनागतानन्तकाल- समीक्षयाऽपि
अदृष्ट सन्तारोपायः, निखिलजन्तुजातशरण्य ! श्रीमन् ! नारायण ! तव
चरणारविन्दयुगलं शरणमहं प्रपद्ये ॥ २ ॥
श्रियै नमः
श्रीमते रामानुजाय नमः
श्रीभगवद्रामानुजविरचिते गद्यत्रये
श्रीरङ्गगद्यम्
[चिदचित्परतत्त्वानां तत्त्वयाथात्म्यवेदिने ।
रामानुजाय मुनये नमो मम गरीयसे ॥]
स्वाधीन
कर्माद्यशेषदोषासंस्पृष्टम्, स्वाभाविकानवधिकातिशय-ज्ञान-
तदे
तदनुभवजनितानवधिकातिशय
प्रीतिकारिता अशेषावस्थोचिताशेष-शेषतैकरतिरूप-
सञ्चित