This page has not been fully proofread.

XXX
 
-
 
मद्दास्यैकस्वभावात्मस्वरूप: ; मदेकानुभव:; मद्दास्यैकप्रियः; परिपूर्णानवरत - नित्य-

विशदतमानन्यप्रयोजन - अनवधिकातिशयप्रिय-मदनुभवस्त्वम्; तथाविधमदनु-भव-

जनितानवधिकातिशय - प्रीतिकारित-अशेषावस्थोचित-अशेषशेषतैकरतिरूप-

नित्यकिङ्करो भव ! ॥ १९ ॥
 

 
एवम्भूतोऽसि ॥ २० ॥
 

 
आध्यात्मिक- आधिभौतिक-आधिदैविक-दुःख- विघ्र - गन्ध-रहितस्त्वम्,

द्वयमर्थानुसन्धानेन सह सदैवं वक्ता; यावच्छरीरपातम् अत्रैव श्रीरङ्गे सुखमास्स्व ॥ २१ ॥
 

 
शरीरपातसमये तु, केवलं मदीययैव दयया अतिप्रबुद्धः, मामेवाऽवलोकयन्,

अप्रच्युतपूर्वसंस्कारमनोरथः, जीर्णमिव वस्त्रं सुखेन, इमां प्रकृति स्थूलसूक्ष्मरूपां

विसृज्य, तदानीमेव मत्प्रसादलब्ध-मञ्चरणारविन्दयुगलैकान्तिकात्यन्तिक - परभक्ति-

परज्ञान- परमभक्तिकृत- परिपूर्णानवरत - नित्य- विशदतम- अनन्यप्रयोजनानवधिकातिशय-

प्रियमदनुभवजनित - अनवधिकातिशय - प्रीतिकारित-अशेषावस्थोचिताशेष- शेषतैकरतिरूप

नित्यकिङ्करो भविष्यसि ! मा ते भूदत्र संशयः ॥ २२ ॥
 

 
'अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन' । रामो द्विर्नाभिभाषते
 
-
 
'सकृदेव प्रपन्नाय तवाऽस्मीति च याचते ।

अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ॥
 

'सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः' ॥
 

इति मयैव ह्युक्तम् ॥ २३ ॥
 
-
 

 
अतस्त्वं तव तत्त्वतो मज्ज्ञानदर्शनप्राप्तिषु निस्संशयः, सुखमास्स्व! ॥ २४ ॥
 

 
[तृणीकृतविरिञ्चादि निरङ्कुशविभूतयः ।

रामानुजपदाम्भोजसमाश्रयणशालिनः ] ॥ २५ ॥

 
अन्त्यकाले स्मृतिर्या तु तव कैङ कर्यकारिता ।

तामेनां भगवन् ! अद्य क्रियमाणां कुरुष्व मे ॥ २६ ॥

 
॥ इति श्रीभगवद्रामानुजविरचितं शरणागतिगद्यं समाप्तम् ॥

॥ श्रीमते रामानुजाय नमः ॥