This page has been fully proofread once and needs a second look.

'तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः' ॥
'उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्' ॥
'बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः' ॥
इति श्लोकत्रयोदित - -ज्ञानिनं मां कुरुष्व ! ॥ १५ ॥
'पुरुषः स परः पार्थ! भक्त्या लभ्यस्त्वनन्यया' ।
'भक्त्या त्वनन्यया शक्यः', 'मद्भक्तिं लभते पराम्' इति स्थानत्रयोदित-
परभक्तियुक्तं मां कुरुष्व ! ॥ १६ ॥
परभक्ति-परज्ञान- परभक्त्येकस्वभावं मां कुरुष्व! ॥ १७ ॥

परभक्ति-परज्ञान-परमभक्तिकृत- परिपूर्णानवरत - -नित्य- विशदतम-
अनन्यप्रयोजनानवधिकातिशयप्रिय - -भगवदनुभवोऽहम्, तथाविध-भगवदनुभव-जनितानवधिकातिशय - -प्रीतिकारित- अशेषावस्थोचित - अशेष- शेषतैकरतिरूप-नित्यकिङ्करो भवानि ॥ १८ ॥

एवम्भूत-मत्कैङ्कर्य-प्राप्त्युपायतया-अवक्लृप्त- समस्त-वस्तु-विहीनोऽपि,
अनन्त-तद्विरोधि-पापाक्रान्तोऽपि, अनन्त-मदपचार- युक्तोऽपि, अनन्त-मदीयापचार-युक्तोऽपि, अनन्तासह्यापचार- युक्तोऽपि, एतत्कार्य-कारण भूतानादि-विपरीताहङ्कार-विमूढात्मस्वभावोऽपि, एतदुभय- कार्यकारण भूतानादि - -विपरीत-वासना-सम्बद्धोऽपि, एतदनुगुण- प्रकृतिविशेष सम्बद्धोऽपि, एतन्मूल आध्यात्मिक-आधिभौतिक- आधिदैविक -सुख-दुःख-तद्धेतु-तदितरोपेक्षणीय-विषयानुभव -ज्ञानसङ्कोचरूप-मञ्चरणा रविन्दयुगलैकन्तिकात्यन्तिक - -परभक्ति-परज्ञान-परमभक्ति-विघ्न प्रतिहतोऽपि; येनकेनाऽपि प्रकारेण द्वयवक्ता त्वम् ; केवलं मदीययैव
दयया; निश्शेष - -विनष्ट- सहेतुक-मञ्चरणारविन्दयुगलैकान्तिकात्यन्तिक- परभक्ति-परज्ञान- परमभक्तिविघ्नः; मत्प्रसादलब्ध-मञ्चरणारविन्दयुगलै कान्तिकात्यन्तिक - -परभक्ति-परज्ञान- परमभक्तिः; मत्प्रसादादेव साक्षात्कृत- यथाऽवस्थित-मत्स्वरूप-रूप-गुणविभूति-लीलोपकरण विस्तार :; अपरोक्षसिद्ध-मनियाम्यता-