This page has not been fully proofread.

'तेषां ज्ञानी नित्ययुक्त एकभक्तिविशिष्यते ।

प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः' ॥

'उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।

आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्' ॥

'बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते ।

वासुदेवः सर्वमिति स महात्मा सुदुर्लभः' ॥

इति श्लोकत्रयोदित - ज्ञानिनं मां कुरुष्व ! ॥ १५ ॥

 
'पुरुषः स परः पार्थ! भक्त्या लभ्यस्त्वनन्यया' ।
 

'भक्त्या त्वनन्यया शक्यः' 'मद्भक्तिं लभते पराम्' इति स्थानत्रयोदित-

परभक्तियुक्तं मां कुरुष्व ! ॥ १६ ॥
 

 
परभक्ति-परज्ञान- परभक्तकस्वभावं मां कुरुष्व! ॥ १७ ॥

 
परभक्ति-परज्ञान-परमभक्तिकृत- परिपूर्णानवरत - नित्य- विशदतम-

अनन्यप्रयोजनानवधिकातिशयप्रिय - भगवदनुभवोऽहम्, तथाविध-भगवदनुभव-

जनितानवधिकातिशय - प्रीतिकारित- अशेषावस्थोचित - अशेष- शेषतैकरतिरूप-

नित्यकिङ्करो भवानि ॥ १८ ॥
 
xix
 

 

 
एवम्भूत-मत्कैङ्कर्य -प्राप्त्युपायतया -अवक्कुप्त- समस्त-वस्तु-विहीनोऽपि,

अनन्त-तद्विरोधि-पापाक्रान्तोऽपि, अनन्त-मदपचार- युक्तोऽपि, अनन्त-मदीयापचार-

युक्तोऽपि, अनन्तासह्यापचार- युक्तोऽपि, एतत्कार्य-कारणभूतानादि-विपरीताहङ्कार-

विमूढात्मस्वभावोऽपि, एतदुभय- कार्यकारणभूतानादि - विपरीत-वासना-

सम्बद्धोऽपि, एतदनुगुण- प्रकृतिविशेष सम्बद्धोऽपि, एतन्मूल आध्यात्मिक-

आधिभौतिक- आधिदैविक सुख-दुःख-तद्धेतु-तदितरोपेक्षणीय-विषयानुभव -

ज्ञानसङ्कोचरूप-मञ्चरणारविन्दयुगले कन्तिकात्यन्तिक - परभक्ति-परज्ञान-

परमभक्ति-विघ्नप्रतिहतोऽपि; येनकेनाऽपि प्रकारेण द्वयवक्ता त्वम् ; केवलं मदीययैव

दयया; निश्शेष - विनष्ट- सहेतुक -मञ्चरणारविन्दयुगलैकान्तिकात्यन्तिक- परभक्ति-

परज्ञान- परमभक्तिविघ्नः; मत्प्रसादलब्ध-मञ्चरणारविन्दयुगलैकान्तिकात्यन्तिक - परभक्ति-

परज्ञान- परमभक्तिः; मत्प्रसादादेव साक्षात्कृत- यथाऽवस्थित-मत्स्वरूप-रूप-

गुणविभूति -लीलोपकरणविस्तार :; अपरोक्षसिद्ध -मनियाम्यता-
-
 
-
 
-
 
-
 
-