This page has not been fully proofread.

'तेषां ज्ञानी नित्ययुक्त एकभक्तिविशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः' ॥
'उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्' ॥
'बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः' ॥
इति श्लोकत्रयोदित - ज्ञानिनं मां कुरुष्व ! ॥ १५ ॥
'पुरुषः स परः पार्थ! भक्त्या लभ्यस्त्वनन्यया' ।
 
'भक्त्या त्वनन्यया शक्यः' 'मद्भक्तिं लभते पराम्' इति स्थानत्रयोदित-
परभक्तियुक्तं मां कुरुष्व ! ॥ १६ ॥
 
परभक्ति-परज्ञान- परभक्तकस्वभावं मां कुरुष्व! ॥ १७ ॥
परभक्ति-परज्ञान-परमभक्तिकृत- परिपूर्णानवरत - नित्य- विशदतम-
अनन्यप्रयोजनानवधिकातिशयप्रिय - भगवदनुभवोऽहम्, तथाविध-भगवदनुभव-
जनितानवधिकातिशय - प्रीतिकारित- अशेषावस्थोचित - अशेष- शेषतैकरतिरूप-
नित्यकिङ्करो भवानि ॥ १८ ॥
 
xix
 

 
एवम्भूत-मत्कैङ्कर्य प्राप्त्युपायतया अवक्कुप्त- समस्त-वस्तु-विहीनोऽपि,
अनन्त-तद्विरोधि-पापाक्रान्तोऽपि, अनन्त-मदपचार- युक्तोऽपि, अनन्त-मदीयापचार-
युक्तोऽपि, अनन्तासह्यापचार- युक्तोऽपि, एतत्कार्य-कारणभूतानादि-विपरीताहङ्कार-
विमूढात्मस्वभावोऽपि, एतदुभय- कार्यकारणभूतानादि - विपरीत-वासना-
सम्बद्धोऽपि, एतदनुगुण- प्रकृतिविशेष सम्बद्धोऽपि, एतन्मूल आध्यात्मिक-
आधिभौतिक- आधिदैविक सुख-दुःख-तद्धेतु-तदितरोपेक्षणीय-विषयानुभव -
ज्ञानसङ्कोचरूप-मञ्चरणारविन्दयुगले कन्तिकात्यन्तिक - परभक्ति-परज्ञान-
परमभक्ति-विघ्नप्रतिहतोऽपि; येनकेनाऽपि प्रकारेण द्वयवक्ता त्वम् ; केवलं मदीययैव
दयया; निश्शेष - विनष्ट- सहेतुक मञ्चरणारविन्दयुगलैकान्तिकात्यन्तिक- परभक्ति-
परज्ञान- परमभक्तिविघ्नः; मत्प्रसादलब्ध-मञ्चरणारविन्दयुगलैकान्तिकात्यन्तिक - परभक्ति-
परज्ञान- परमभक्तिः; मत्प्रसादादेव साक्षात्कृत- यथाऽवस्थित-मत्स्वरूप-रूप-
गुणविभूति लीलोपकरणविस्तार :; अपरोक्षसिद्ध मनियाम्यता-
-
 
-
 
-
 
-
 
-