2023-04-21 05:45:08 by jayusudindra
This page has been fully proofread once and needs a second look.
निरत! अशेष-चिदचिद्वस्तु-शेषिभूत ! निखिल - -जगदाधार! अखिल जगत्स्वामिन् ! अस्मत्स्वामिन्! सत्यकाम! सत्यसङ्कल्प ! सकलेतरविलक्षण! अर्थिकल्पक ! आपत्सख! श्रीमन् ! नारायण ! अशरण्यशरण्य ! अनन्य शरणः, त्वत्पादारविन्दयुगलंशरणमहं प्रपद्ये ॥ ५ ॥
अत्र द्वयम् ॥ ६ ॥
पितरं मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् ।
रत्नानि धन-धान्यानि क्षेत्राणि च गृहाणि च ॥ ७ ॥
सर्वधर्मांश्च सन्त्यज्य सर्वकामांश्च साक्षरान् ।
लोकविक्रान्तचरणौ शरणं तेऽव्रजं विभो ! ॥ ८ ॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च गुरुस्त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ ९ ॥
पिताऽसि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव! ॥ १० ॥
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायाऽर्हसि देव! सोढुम् ॥ ११ ॥
मनोवाक्कायैः अनादिकालप्रवृत्तानन्त- अकृत्यकरण - -कृत्याकरण-
भगवदपचार - भागवतापचार-असह्यापचाररूप-नानाविधानन्तापचारान्;
आरब्धकार्यान्-अनारब्धकार्यान्; कृतान्- क्रियमाणान् -करिष्यमाणांश्च- सर्वान् अशेषतः क्षमस्व ॥ १२ ॥
अनादिकालप्रवृत्तं विपरीतज्ञानम् आत्मविषयम्-कृत्स्त्रजगद्विषयं च; विपरीतवृत्तं च अशेषविषयम्, अद्याऽपि वर्तमानं वर्तिष्यमाणं च सर्वं क्षमस्व ॥ १३ ॥
मदीयानादिकर्मप्रवाहप्रवृत्ताम्, भगवत्स्वरूपतिरोधानकरीं, विपरीतज्ञान जननीं, स्वविषयायाश्च भोग्यबुद्धेर्जननीं, देहेन्द्रियत्वेन -भोग्यत्वेन - -सूक्ष्म रूपेण चावस्थितां, दैवीं, गुणमयीं, मायाम् ; दासभूतः, ' शरणागतोऽस्मि; तवाऽस्मि दास ' इति वक्तारंमां तारय ॥ १४ ॥
अत्र द्वयम् ॥ ६ ॥
पितरं मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् ।
रत्नानि धन-धान्यानि क्षेत्राणि च गृहाणि च ॥ ७ ॥
सर्वधर्मांश्च सन्त्यज्य सर्वकामांश्च साक्षरान् ।
लोकविक्रान्तचरणौ शरणं तेऽव्रजं विभो ! ॥ ८ ॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च गुरुस्त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ ९ ॥
पिताऽसि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव! ॥ १० ॥
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायाऽर्हसि देव! सोढुम् ॥ ११ ॥
मनोवाक्कायैः अनादिकालप्रवृत्तानन्त-
भगवदपचार - भागवतापचार-असह्यापचाररूप-नानाविधानन्तापचारान्;
आरब्धकार्यान्-अनारब्धकार्यान्; कृतान्-
अनादिकालप्रवृत्तं विपरीतज्ञानम् आत्मविषयम्-कृत्स्त्रजगद्विषयं च; विपरीतवृत्तं च अशेषविषयम्, अद्याऽपि वर्तमानं वर्तिष्यमाणं च सर्वं क्षमस्व ॥ १३ ॥
मदीयानादिकर्मप्रवाहप्रवृत्ताम्, भगवत्स्वरूपतिरोधानकरीं, विपरीतज्ञान जननीं, स्वविषयायाश्च भोग्यबुद्धेर्जननीं, देहेन्द्रियत्वेन