This page has not been fully proofread.

xviii
 
निरत! अशेष-चिदचिद्वस्तु-शेषिभूत ! निखिल - जगदाधार! अखिलजगत्स्वामिन् !

अस्मत्स्वामिन्! सत्यकाम! सत्यसङ्कल्प ! सकलेतरविलक्षण! अर्थिकल्पक !

आपत्सख! श्रीमन् ! नारायण! अशरण्यशरण्य! अनन्यशरणः, त्वत्पादारविन्दयुगलं

शरणमहं प्रपद्ये ॥ ५ ॥
 

 
अत्र द्वयम् ॥ ६ ॥
 

 
पितरं मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् ।

रत्नानि धन-धान्यानि क्षेत्राणि च गृहाणि च ॥ ७ ॥

सर्वधर्मांश्च सन्त्यज्य सर्वकामांश्च साक्षरान् ।

लोकविक्रान्तचरणौ शरणं तेऽव्रजं विभो ! ॥ ८ ॥

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च गुरुस्त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ ९ ॥

 
पिताऽसि लोकस्य चराचरस्य
 

त्वमस्य पूज्यश्च गुरुर्गरीयान् ।

न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
 

लोकत्रयेऽप्यप्रतिमप्रभाव! ॥ १० ।॥
 

 
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।

पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायाऽर्हसि देव! सोढुम् ॥ ११ ॥
 

 
मनोवाक्कायैः अनादिकालप्रवृत्तानन्त- अकृत्यकरण - कृत्याकरण-

भगवदपचार - भागवतापचार-असह्यापचाररूप-नानाविधानन्तापचारान्;

आरब्धकार्यान्-अनारब्धकार्यान्; कृतान्- क्रियमाणान् करिष्यमाणांश्च सर्वान्

अशेषतः क्षमस्व ॥ १२ ॥
 
-
 
-
 

 
अनादिकालप्रवृत्तं विपरीतज्ञानम् आत्मविषयम्-कृत्स्त्रजगद्विषयं च; विपरीतवृत्तं

च अशेषविषयम्, अद्याऽपि वर्तमानं वर्तिष्यमाणं च सर्वं क्षमस्व ॥ १३ ॥
 

 
मदीयानादिकर्मप्रवाहप्रवृत्ताम्, भगवत्स्वरूपतिरोधानकरीं, विपरीतज्ञानजननीं,

स्वविषयायाश्च भोग्यबुद्धेर्जननीं, देहेन्द्रियत्वेन -भोग्यत्वेन - सूक्ष्मरूपेण चावस्थितां,

दैवीं, गुणमयीं, मायाम् ; दासभूतः, 'शरणागतोऽस्मि; तवाऽस्मि दास' इति वक्तारं

मां तारय ॥ १४ ॥