This page has been fully proofread once and needs a second look.

श्रीधराय नमः
श्रियै नमः
श्रीमते रामानुजाय नमः
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-
व्यामोहतस्तदितराणि तृणाय मेने ।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥
 
श्रीभगवद्रामानुजाचार्यविरचिते गद्यत्रये
 
शरणागतिगद्यम्
 
[ वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् ।
रामानुजार्यमार्याणां चूडामणिमहर्निशम् ॥]
 
ओम् भगवन्नारायणाभिमतानुरूप-स्वरूप-रूप-गुण-विभवैश्वर्य-
शीलाद्य- नवधिकातिशय - -असङ्ख्येयकल्याणगुणगणाम्, पद्मवनालयाम्, भगवतीम्,
श्रियम्, देवीम्, नित्यानपायिनीम्, निरवद्याम्, देवदेवदिव्यमहिषीम्, अखिलजगन्मातरम्-
अस्मन्मातरम्-अशरण्यशरण्याम्, अनन्यशरणः - शरणमहं प्रपद्ये ॥ १ ॥
 
पारमार्थिक-भगवच्चरणारविन्दयुगलैकान्तिकात्यन्तिक-परभक्ति-परज्ञान-
परमभक्तिकृत-परिपूर्णानवरत-नित्य-विशदतम-अनन्यप्रयोजनानवधि- कातिशय-प्रिय-
भगवदनुभवजनित-अनवधिकातिशयप्रीतिकारित-अशेषा वस्थोचित -
अशेषशेषतैकरतिरुप-नित्यकैङ्कर्यप्राप्त्यपेक्षया, पारमार्थिकी भगवच्चरणारविन्द-
शरणागतिः यथावस्थिता- अविरताऽस्तु मे ॥ २ ॥
 
अस्तु ते ॥ ३॥
 
तयैव सर्वं सम्पत्स्यते ॥ ४ ॥
 
अखिलहेयप्रत्यनीक-कल्याणैकतान स्वेतर-समस्तवस्तु-विलक्षणानन्त-
ज्ञानानन्दैक-स्वरूप!