2023-04-08 09:29:25 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
द्रविडसम्प्रदायविभागे :- सम्प्रदायपरिशुद्धिः, अभयप्रदानसारः, परमतभंगः,
मुनिवाहनभोगम्, अधिकारसंग्रहः, परमपदसोपानम्, अमृतास्वादिनी, विरोधपरिहारः
इत्याद्याः ।
प्रकृतं संसदा गद्यत्रयं सुदर्शनसूरिकृतव्याख्यया, वेदान्तदेशिक भाष्येण च प्राकाश्यं
नीतं वर्तते । प्रथमं मूलं तदनु श्री सुदर्शनसूरिभिः विरचितं श्रुतप्रकाशिकाभाष्यं, पश्चात्
वेदान्तदेशिकविरचिता रहस्यरक्षाव्याख्या च प्रकाशिता । पाठान्तरेण संवलिता । पाठभेदार्थं
स्वीकृतानां ग्रन्थानां सूची अन्ते दत्ता वर्तते । अन्ते च अनुबन्धे प्रमाणाकरणां सूचनी,
कारिकाणां सूचनी इत्यादिकमुपनिबद्धं वर्तते । ग्रन्थादौ अध्येतॄणां सौकर्याय गद्यत्रयस्य
मूलपाठोऽपि प्रकाशितः ।
कीर्तिशेषभूतैः श्रीमद्भिः विद्वद्भिः सरगुगूरुमाडभूषि वरदाचार्यैः आवश्यक मार्गदर्शादिना
अस्मान् उपकृतवन्तः । तेषां हार्दं कार्तज्ञ्यं अर्प्यते इयं संसत् ।
अस्य ग्रन्थस्य सम्पादनकार्ये संसद: निर्देशका: सहकार्यदर्शिनश्च श्री उ.वे. भाष्यं
स्वामीजीमहोदयाः आवश्यकान् सर्वान् मार्गदर्शनान् प्रदाय अस्मान् प्रोत्साहितवन्तः ।
तेभ्यः हार्दं कार्तज्ञ्यमर्पयामि । तथा संशोधनसहायकाः विद्वान् एस्. एन्. आनन्दाळळ्वार्,
तथा विद्वान् के.एन्. रङ्गप्रियः, गणकयन्त्रकार्यकर्तारौ श्री जवरेगौडः, श्रीमती डि.एन्.
सौभाग्या, मुद्रणकार्यकर्तारौ श्री के. एस्. बेट्टस्वामिगौडः, श्री जि.एन्. बेट्टेगौडः,
मुखपुटविन्यासकारः विद्वान् हेच्. एस्. हनुमन्तरावः, कलाकारः श्री लोकेशः, कार्यालयस्य
कुलसचिवः श्री कृष्णप्रसादः, उपकुलसचिव: एस्. कुमारः, अन्येऽन्ये च आवश्यकान्
सर्वान् सहकारान् प्रदाय कार्यमेतन्निर्वोढुं महान्तमानुकूल्यमापादितवन्तः इति तेभ्यः
कार्तज्ञ्यमर्पयामि । श्रीमान् यदुशैलदीपः यदुगिरिनायिकासमेतः नारायणः प्रसीदतु ॥
॥ इति शम् ॥
एस्. नारायणः
सम्पादक:
संशोधनाधिकारी
संस्कृत-संशोधन-संसत्, मेलुकोटे
मुनिवाहनभोगम्, अधिकारसंग्रहः, परमपदसोपानम्, अमृतास्वादिनी, विरोधपरिहारः
इत्याद्याः ।
प्रकृतं संसदा गद्यत्रयं सुदर्शनसूरिकृतव्याख्यया, वेदान्तदेशिक भाष्येण च प्राकाश्यं
नीतं वर्तते । प्रथमं मूलं तदनु श्री सुदर्शनसूरिभिः विरचितं श्रुतप्रकाशिकाभाष्यं, पश्चात्
वेदान्तदेशिकविरचिता रहस्यरक्षाव्याख्या च प्रकाशिता । पाठान्तरेण संवलिता । पाठभेदार्थं
स्वीकृतानां ग्रन्थानां सूची अन्ते दत्ता वर्तते । अन्ते च अनुबन्धे प्रमाणाकरणां सूचनी,
कारिकाणां सूचनी इत्यादिकमुपनिबद्धं वर्तते । ग्रन्थादौ अध्येतॄणां सौकर्याय गद्यत्रयस्य
मूलपाठोऽपि प्रकाशितः ।
कीर्तिशेषभूतैः श्रीमद्भिः विद्वद्भिः सर
अस्मान् उपकृतवन्तः । तेषां हार्दं कार्तज्ञ्यं अर्प्यते इयं संसत् ।
अस्य ग्रन्थस्य सम्पादनकार्ये संसद: निर्देशका: सहकार्यदर्शिनश्च श्री उ.वे. भाष्यं
स्वामीजीमहोदयाः आवश्यकान् सर्वान् मार्गदर्शनान् प्रदाय अस्मान् प्रोत्साहितवन्तः ।
तेभ्यः हार्दं कार्तज्ञ्यमर्पयामि । तथा संशोधनसहायकाः विद्वान् एस्. एन्. आनन्दा