This page has been fully proofread once and needs a second look.

संस्कृत - द्राविडवेदान्तप्रवचनैकपरायणः वादाहवेषु परान् प्रत्याचक्षणश्च आदेहपातमुवासेति
निश्चप्रचम् ।
 
श्रीभाष्यकारैः भगवद्रामानुजायैः निर्विशेषाद्वैतमतोपरि प्रतिपादितानां दूषणानां
विस्तरणार्थं वादग्ग्रन्थरूपेण प्रवर्तिता शतदूषणी कृतिः आचार्यप्रतिभायाः पताका भवति ।
विशिष्टाद्वैतसिद्धान्तसर्वस्वमिति सम्भावनीयो ग्रन्थः तत्त्वमुक्ताकलापाख्याः स्रग्धरावृत्तमयश्लोक -
पंचशती समुद्भासितः स्वेनैव सर्वार्थसिद्धिनामकव्याख्यया परिष्कृतः श्रीवैष्णवैः विद्वद्भिः
कण्ठे धार्यं अमूल्यमाभरणम् । एकस्यामेव रात्रौ श्रीरंगनाथपादुकामुद्दिश्य निर्मितं
विविधालंकारवैचित्रीबन्धुरं पादुकासहस्राभिधस्तोत्रं भावुकानां सुधास्वादवत्
अमन्दानन्दसन्धायकम् । एवमस्य द्रविडभाषामया गाथाप्रबन्धा अपि बहवः उभयभाषयोः
समं प्रौढिमानमाविष्कुर्वन्ति ।
 
'कर्मावलंबकाः केचित् केचित् ज्ञानावलंबकाः ।
वयं त हरिदासानां पादरक्षावलंबकाः' ।
 
इति श्लोकेन तान् सद्यः प्रत्युत्तरयतः स्वविनयप्रदर्शनकाष्ठा हि परमविस्मयनीया । एतदीयं
यादवाभ्युदयमहाकाव्यं श्रीमदप्पयदीक्षितेन आलंकारिकमूर्धन्येन व्याख्यातमित्यत एव
तत्काव्यवैभवं सुगमम् । एवं काव्यनाटकविभागे, स्तोत्रविभागे, व्याख्याविभागे,
द्रविडसंम्प्रदायविभागे च शताधिकान् प्रबन्धान् प्रणीतवतोऽस्य महागुरोः प्रसिद्धाः कतिपयग्रन्था
इह नामतो निर्दिश्यन्ते ।
 
काव्यविभागे :- यादवाभ्युदयः, हंससन्देशः सुभाषितनीवी, संकल्पसूर्योदयनाटकम् इत्याद्याः ।
 
शास्त्रविभागे :- शतदूषणी, तत्त्वमुक्ताकलापः सर्वार्थसिद्धि सहितः,
न्यायपरिशुद्धिः, न्यायसिद्धांजनम्, सेश्वरमीमांसा, अधिकरणसारावलिः, मीमांसापादुका इत्याद्याः ।
 
व्याख्यानविभागे :- गीताभाष्यतात्पर्यचन्द्रिका, तत्त्वटीका, ईशावास्यभाष्यम्,
स्तोत्ररत्नभाष्यम्, गद्यत्रयभाष्यम् इत्याद्याः ।
 
स्तोत्रविभागे :- पादुकासहस्रम्, दयाशतकम्, अच्युतशतकम्,यतिराजसप्ततिः,
अभीतिस्तवः, हयग्रीवस्तोत्रम्, गरुडपञ्चाशत् सव्याख्यन्यासविंशतिः इत्याद्याः ।