2023-04-07 13:07:33 by Vidyadhar Bhat
This page has not been fully proofread.
पूर्वाचार्यैः परिरक्षितश्रीरङ्गक्षेत्रं, श्रीरङ्गनाथकैङ्कर्यञ्च तथा श्रीभाष्यादि प्रमाणग्रन्थान्
सम्यक् परिपोषितवन्तः एते । एतेषां कालानन्तरं तुरुष्कयवनाद्याक्रमणकाले
श्रीपिळ्ळैलोकाचार्येण, प्रमेयं श्रीरङ्गनाथदिव्यमङ्गलविग्रहं, तथा श्रीवेदान्ताचार्येण प्रमाणं
श्रुतप्रकाशिकां परिरक्ष्य उपकृतवन्तः । श्री श्रुतप्रकाशिकाचार्यस्य तनियन् (स्तुतिः)
'यतीन्द्रकृतभाष्यार्थाः यद्याख्यानेन दर्शिताः ।
वरं सुदर्शनार्यं तं वन्दे कूरकुलाधिपम्' ॥ इति ।
३. श्रीवेदान्तदेशिकः -
श्रीवेदान्तदेशिकः - विशिष्टाद्वैतसम्प्रदाये सर्वपूर्वोत्तराचार्येभ्यः अस्य निरतिशय-
वैभवम् । वेंकटनाथार्य: वेंकटेशः इति जन्मनाम्ना कीर्तितोऽसौ परपक्षनिरासपूर्वक-
सिद्धान्तस्थापकबहुप्रबन्धनिर्माणालंकर्मीणत्वात् साक्षात् श्रीरंगनाथेनैव दत्तवेदान्ताचार्यबिरुदः
इति प्रसिद्धिः । तदारभ्य वेदान्तदेशिकः निगमान्तगुरुः इत्यादिनामभिरेष व्यपादिश्यत । उक्तं
चैतत् स्वयमेव अधिकरणसारावले: आदौ 'विश्वस्मिन् नामरूपाण्यनुविहितयता तेन
देयेन दत्तां वेदान्ताचार्यसंज्ञा अवहितबहुवित्सार्थमन्वर्थर्यामि' इति । तथा
संकल्पसूर्योदयनाटके प्रस्तावनायां 'विंशत्यब्दे बहुश्रुतनानाविधविद्यः त्रिंशद्वारं
श्रावितशारीरकभाष्यः' इति स्वयमेव कीर्तनात् विंशतिवर्षमिते वयस्येव सर्वविद्यावैशारद्यं
प्रापुषोऽमुष्य आचार्यतल्लजस्य जीवितकाले त्रिंशद्वारं श्रीभाष्यप्रवचनं च शिष्येभ्यः कृतमिति
महतीयं असाधारणी प्रतिष्ठा । कवितार्किकसिंह इति सर्वतन्त्रस्वतन्त्र इति च समानकालिकैः
विद्वद्वरैः सादरं बिरुदप्रदानेन एष समभाव्यत ।
कांच्याः समीपे तूप्पिल्नाम्नि अग्रहारे लब्धजन्मनोऽस्य जीवनकाल : (क्रिस्तः
१२६८ प्रभृति १३६९ पर्यन्त इति चारित्रकाः । वैश्वामित्रवंशे लब्धजनुषोऽस्य पितामहः
पुण्डरीकाक्षयज्वा, पितरौ च अनन्तार्यतोतारम्बनामकौ । श्रुतप्रकाशिकाकर्तुः
श्रीसुदर्शनभट्टारकस्य सब्रह्मचारितया व्यपदिष्टात् वात्स्यवरदाचार्यशिष्येषु अग्रगण्यात्
श्रीमदात्रेयरामानुजार्यात् स्वमातुलादेव सर्वविद्याधिगमः । अस्य शिष्याः आद्यब्रह्मतन्त्र-
मुनीन्द्रप्रभृतयः परश्शतम् । विद्यारण्यमुनि अक्षोभ्यमुनिप्रभृतयोऽस्य समसामयिकाः भिन्नमतस्थाः
प्रसिद्ध विद्धांसः । कांच्यामेव स्वप्रथमवयसि सिद्धान्तप्रवर्तकतया स्थितोऽयं
श्रीरंगक्षेत्रश्रियोऽभिवृद्धिमपेक्ष्य तत्रत्यैः परमभागवतैराहूतः तत्र गत्वा लम्भितोद्दामभूमा

प्रसिद्ध