This page has not been fully proofread.

X
 
एतैः अनुगृहीताः ग्रन्थाश्च १. श्रीभाष्यम् २. गीताभाष्यम्, ३. वेदान्तदीपः, ४. वेदान्तसारः

५. वेदार्थसंग्रहः, ६. शरणागतिगद्यम्, ७. श्रीरङ्गगद्यम्, ८. वैकुण्ठगद्यम्, ९. नित्यग्रन्थः,

(भगवदाराधनप्रतिपादक: इति) आहत्य नव ग्रन्थाः ।
 

 
२. श्री श्रुतप्रकाशिकाचार्या :- सुदर्शनसूरयः
 

 
एते च श्रुतप्रकाशिकाचार्या : श्रीरङ्ग क्षेत्रे कृतावताराः । क्रिस्ताब्दे १३ तेषां

जीवितकालः । एते हारितगोत्रलब्धजन्मानः । तातपादा एतेषां वाग्विजयिभट्टर् नामानः ।

एतेषां पितामहाः वेदव्यासभट्टर् । भगवद्रामानुजाचार्याणां प्रधान अन्तरङ्गशिष्यस्य श्री

कूरेशस्य (कूरत्ताळ्वान्) प्रपौत्राः एते श्रुतप्रकाशिकाचार्याः । एते सुदर्शनभट्टर्, सुदर्शनसूरिः,

व्यासभट्टर्, टीकाचार्यः, इत्यादि नामधेयैः प्रख्याताः ।
 

 
तेषां आचार्याः तावत् वात्स्यवरदाचार्याः नडादूरम्माळ् इति द्राविडभाषायां

प्रसिद्धाः । भगवद्रामानुजार्यैः स्थापितेषु चतुस्सप्ततौ सिंहासनेषु अन्यतमस्य श्रीभाष्यपीठस्य

अधिपतयश्च । एतेषां सविधे श्रुतप्रकाशिकाचार्या : श्रीभाष्यादि ग्रन्थान् अधीतवन्तः ।

आचार्यमुखेन बहुवारं श्रीभाष्यकालक्षेपं श्रुत्वा यथाश्रुतं तथैव विलिख्य रक्षितवान् । अत

एव एतेषां नाम 'श्रुतप्रकाशिकाचार्यः' इति विख्यातम् । तद्ग्रन्थः 'श्रुतप्रकाशिका'

इत्येव प्रसिद्धाभूत् ।
 

 
तस्मै रामानुजार्याय नमः परमयोगिने ।
 

यः श्रुतिस्मृतिसूत्राणां अन्तर्ज्वरमशीशमत् ॥

वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् ।

भाष्यामृतप्रदानात् यः सञ्जीवयति मामपि ॥
 

 
इति श्रुतप्रकाशिकाग्रन्थारम्भे परमगुरून् भगवद्रामानुजाचार्यान् तथा स्वगुरून् वात्स्यवरदार्यान्

नमस्कृतवन्तः ।
 

 
एतैः अनुग्रहीताः ग्रन्थाः - १. श्रुतप्रकाशिका २. श्रुतप्रदीपिका ३. तात्पर्यदीपिका -

वेदार्थसङ्ग्रहव्याख्या ४. सुबालोपनिषद्वृत्ति: ५. शरणागतिगद्यव्याख्या (इतर गद्यद्वयस्य व्याख्या

लुप्ता) ६. नित्यग्रन्थव्याख्या ७. शुकपक्षीयम् (भागवतव्याख्याग्रन्थः) ८. सन्ध्यावन्दनभाष्यम्

९. प्रार्थनापञ्चकम् १०. मुक्तकश्लोकाः ११. पञ्चस्तवादिव्याख्या (लुप्तः) इत्याद्यनेके ग्रन्थाः ।
 

 
एतेषां सविधे श्री पिळ्ळैलोकाचार्याः, श्री वेदान्ताचार्याः, ईयुण्णि पद्मनाभाः

इत्यादि महाचार्या: श्रीभाष्यादीन् अधीतवन्ताः ।