This page has been fully proofread once and needs a second look.

श्रीवैकुण्ठगद्यम् -
 
ततो भगवता स्वयमेवात्मसञ्जीवनेन अवलोकनेनाऽवलोक्य, सस्मितमाहूय;
 

समस्त-क्लेशापहं, निरतिशय -सुखावहम् आत्मीयं, श्रीमत्पादारविन्दयुगलं, शिरसि
कृतं ध्यात्वा; अमृत -सागरान्तर्निमग्न- सर्वावयवः सुखमासीत ॥ ७ ॥

॥ इति श्रीभगवद्रामानुजाचार्यविरचितं श्रीवैकुण्ठगद्यं सम्पूर्णम् ॥

॥ इति श्रीभगवद्रामानुजाचार्यविरचितं गद्यत्रयं सम्पूर्णम् ॥

॥ श्रीमते रामानुजाय नमः ॥
 
-
 
110
 

द्वयवचनधनानां द्विः प्रयोगानपेक्षे
 

मुषितनिखिलदोषे मुक्तयुपाये स्थितानाम् ।

अमृतमिव पयोधेराप्तमेतद्यतीन्द्रात्
 

व्यवृणुत मितगद्यं वेङ्कटेशः सुमेधाः ॥

॥ इति रहस्यरक्षायां मितगद्याधिकारः समाप्तः ॥

॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य

वेदान्ताचार्यस्य कृतिषु रहस्यरक्षायां
 

गद्यत्रयभाष्यं समाप्तम् ॥