This page has been fully proofread once and needs a second look.

रहस्यरक्षाव्याख्योपेतम्
 
अतिशीतलया दृशाऽवलोक्य, स्निग्ध-गम्भीर-मधुरया गिरा परिचर्यायाम्

आज्ञापयिष्यति!' इति, भगवत्परिचर्यायाम् आशां वर्धयित्वा;
 
109
 

[ स्वस्य भगवते निवेदनम्]
 

तयैवाशया तत्प्रसादोपबृंहितया भगवन्तमुपेत्य, दूरादेव भगवन्तं शेषभोगे

श्रिया सहाऽऽसीनम्, वैनतेयादिभिः सेव्यमानम्, 'समस्तपरिवाराय श्रीमते नारायणाय
नमः' इति प्रणम्योत्थायोत्थाय पुनः पुनः प्रणम्य, अत्यन्त- साध्वस- विनयावनतो
भूत्वा, भगवत्पारिषद- गणनायकैः, द्वारपालैः, कृपया स्नेहगर्भया दृशाऽवलोकितः,
सम्यगभिवन्दितैः तैस्तैरेवानुमतो भगवन्त- मुपेत्य, श्रीमता मूलमन्त्रेण माम्
ऐकान्तिकात्यन्तिक - -परिचर्याकरणाय परिगृह्णीष्व' इति याचमानः, प्रणम्य, आत्मानं
भगवते निवेदयेत् ॥ ४ ॥
 

[नित्यर्कङकैङ्कर्येण भगवदुपासनम्]
 

ततो भगवता, स्वयमेवात्मसञ्जीवनेन; अमर्यादशीलवता, अतिप्रेमान्वितेनाव-

लोकनेनावलोक्य, सर्वदेश- सर्वकाल -सर्वावस्थोचितात्यन्त -शेषभवावत्य स्वीकृत;
अनुज्ञातश्च अत्यन्त - -साध्वस - -विनयावनतः, किङ्कुर्वाणः, कृताञ्जलि-पुटो
भगवन्तमुपासीत ॥ ५ ॥
 

[भगवदवलोकनाविच्छेदः, आनन्मग्नतया भगवत्पादच्छायायाम् अविरतावस्थितिञ्च]
 

ततश्चानुभूयमान भावविशेषः, निरतिशय - -प्रीत्या; अन्यत् किञ्चित् कर्तुं
व्

द्
रष्टुं स्मर्तुमशक्तः पुनरपि शेषभावमेव याचमानो, भगवन्तमेव अविच्छिन्न-स्त्रोतोरूपेण
अवलोकनेनावलोकयन् आसीत ॥ ६ ॥
 

र.र. - जगद्व्यापारव्यपदेशरूपस्तुतिः; न्यस्तसमस्तात्मैश्वर्यम् - इत्येतदपि सेनानिर्वहणाद्यर्थाधिकार-,
प्रदानपरम्; 'स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति'
(छां.उ.८-२-१) इत्यादिन्यायेन परिमित विषयो वाऽत्र जगच्छब्दः; अतो हिरण्यगर्भादिवत्
क्वाचित्कप्रभूतसृष्ट्यादि- मात्राशास्मिन् ब्रह्मलक्षणप्रसङ्गः । यदपि आत्मभोगेन
अनुसंहितपराविदि- कालम् इति' तदपि भगवतः कालविषयमज्ञानं नाभिप्रति,
रेति, आनन्दप्रकर्ष- प्रशंसायां तात्पर्यात् । यञ्च तत्पादाम्बुजद्वयं प्रवेक्ष्यामि इति मुमुक्षोरभि-

संधिरुच्यते, तत्र पूर्वोक्तस्य शिरसा संग्रहणस्य गाढतमत्वं प्रवेशशब्देना- भिप्रेतम् । यदपि
शेषभावाय स्वीकृतः - इति तत्र यावदात्मभाविकैङ्कर्य- करणाय संकल्पित इत्यर्थः ।
एवमन्यदपि सर्व सुसङ्गतम् इति ॥
 
>
 
1