This page has not been fully proofread.

108
 
चूडाऽवतंस-मकरकुण्डल-ग्रैवेयक-हार- केयूर - कटक श्रीवत्स-कौस्तुभ-मुक्तादामोदरबन्धन-
पीताम्बर - काञ्ची - गुण-नूपुरादिभिः अत्यन्त-सुखस्पर्शैर्दिव्यगन्धैः 'दिव्य'भूषणैर्भूषितम्,

श्रीमत्या वैजयन्त्या वनमालया विराजितम्; शङ्ख-चक्र-गदाऽसि - शार्ङ्गदि- दिव्यायुधैः
सेव्यमानम्; स्वसङ्कल्पमात्रावकुप्त- जगज्जन्म-स्थिति - ध्वंसादिके, श्रीमति, विष्वक्सेने,
न्यस्त-समस्तात्मैश्वर्यम्; वैनतेयादिभिः स्वभावतो निरस्त समस्त सांसारिक-
स्वभावै:; भगवत्परिचर्या-करण- योग्यैः, भगवत्परिचर्येक - भोगैः ; नित्य-सिद्धैः अनन्तैः
यथायोगं सेव्यमानम्; आत्मभोगेनानुसंहित- परादि-काल - दिव्यामल - कोमलावलोकनेन,
विश्वमाह्लादयन्तम् ; ईषदुन्मीलित-मुखाम्बुजोदर विनिर्गतेन, दिव्याननारविन्द-
1 शोभाजनकेन; दिव्य-गाम्भीर्य- औदार्य-सौन्दर्य - माधुर्याद्यनवधिक-गुण-गण-
विभूषितेन, अतिमनोहर- दिव्य-भाव- गर्भेण; दिव्यलीलालापामृतेन अखिल-जन-
हृदयान्तराणि आपूरयन्तम्; भगवन्तं नारायणम्, ध्यानयोगेन दृष्ट्वा;
 
-
 
-
 
[ जीवात्म-परमात्मनो: स्वाभाविकसम्बन्धचिन्तनं, भगवत्साक्षात्कारनिरीक्षा च]
 
ततो भगवतो नित्यस्वाम्यम् आत्मनो नित्यदास्यं च यथावस्थितम्
अनुसन्धाय; 'कदाऽहं भगवन्तं, नारायणं, मम नाथम् मम कुलदैवतम्, मम
कुलधनम्, मम भोग्यम्, मम मातरम्, मम पितरम्, मम सर्वम्, साक्षात्करवाणि
चक्षुषा!' 'कदाऽहं भगवत्पादाम्बुज-द्वयं शिरसा सङ्ग्रहिष्यामि ! '3 'कदाऽहं
भगवत्पादाम्बुज-द्वय परिचर्याशया निरस्त - समस्तेतर- भोगाशः, अपगत समस्त-
सांसारिक - स्वभावः, तत्पादाम्बुज - द्वयं प्रवेक्ष्यामि !' 'कदाऽहं भगवत्पादाम्बुज-द्वय -
परिचर्या - करणयोग्यः तदेकभोगः, तत्पादौ परिचरिष्यामि !' 'कदा मां भगवान् स्वकीयया
 

 
श्रीवैकुण्ठगद्यम् -
 
र.र. आज्ञापनं परिचर्याविशेषेषु इच्छोत्पादनमात्रम्, तेषां सर्वज्ञत्वेन ज्ञानोत्पादननैरपेक्ष्यात् ।
पुण्डरीकसदृशचरणयुगलम् - इति अत्र पुण्डरीकशब्दः पद्मसामान्यमुखेन रक्ताम्बुजपरः ।
 
१. 'दिव्य' इति पारायणे प्रयुज्यते ।
 
1. शोभाजननेन अ । 2. कुलनाथम् आ ।
 
यत्तूक्तम् - संकल्पमात्रावक्लृप्तजगज्जन्मस्थितिध्वंसादिके श्रीमति विष्वक्सेने
न्यस्तसमस्तात्मैश्वर्यम् इति, तत्र यद्यपि जगव्यापारमोक्षप्रदत्वे ब्रह्मलक्षणतया मुक्तेष्विव
नित्यसूरिष्वपि सर्वेषु न संभवतः; यद्यपि च भगवान् स्वतः सर्वज्ञः; तथाऽपि 'प्रियेण
सेनापतिना निवेदितं तथाऽनुजानन्तमुदारवीक्षणै: ' (स्तो. र. ४२) इति न्यायेन
भगवद्दत्ततादृशाधिकारतया तत्तदवसरे जगत्सृष्ट्याद्यर्थं भगवते विज्ञापनवाक्यं विष्वक्सेनो
व्याहरति; तदा स्वतः सर्वज्ञो भगवान् तन्निवेदितकारीव क्रीडति; तावन्मात्रेण विष्वक्सेनस्य
 
3. धारयिष्यामि - इ ।