This page has not been fully proofread.

V111
 
भगवद्रामानुजाचार्यैः स्वानुसन्धानपूर्वकं परमाह्लादकतया भक्त्या प्रतिपादितम् । एतादृशस्य

परमात्मनः वैभवपूर्णानुभवः प्रपन्नस्य प्रतिनित्यमावश्यकम् । एष एव भक्तियोगः ।

तदुक्तं पाञ्चरात्ररक्षायां - 'अपि चात्र द्वयव्याख्यानरूपे गद्यत्रये निर्वेद भूयस्तया

स्वरूपरूपगुणविभूतिदेवीभूषणायुध-परिजन-परिच्छदद्वारपालपार्षदादीनां
 

यथावद नुसन्धानहे तुतया यथावस्थितस्वरूपरूपगुणविभूतिलीलोपकरण-

विस्तारमनुसन्धाय तमेव शरणमुपगच्छेत्' अखिलेत्यादिना समाराधनादौ अन्ते च

भाष्यकारैः एव विनियुक्तम् । श्रीवैकुण्ठगद्यन्तु
 
-
 
'यामुनार्यसुधाम्बोधिमवगाह्य यथामति ।
 

आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम्' ॥
 

 
इति प्रारम्भात् पश्चादपि 'ध्यानयोगेन दृष्ट्वा' इत्यभिधानात् फलरूप-विलक्षणानुसन्धानभेदानां

विधानात् 'अविच्छिन्नस्रोतोरूपेणावलोकयन्नासीत्' इति कण्ठोक्तेश्च । योगार्थसङ्कल्पिते

काले विशेषतो अनुसन्धेयमिति भाष्यकारातिशयः प्रतीयते । यामिन्यां भगवद्ध्यानस्य

त्वरातिशयः स्मर्यते
 
-
 

 
'उपपातकयुक्तेऽपि महापातकवानपि ।
 

यामिन्यां पादमेकन्तु ब्रह्मध्यानं समाचरेत्' ॥ इति । ( पां. र. तृतीयेऽधिकारे)

 
अस्य गद्यत्रयस्य पूर्वाचार्यकृताः व्याख्याः बह्व्यः आसन्, इति तत्र तत्र ग्रन्थानां

परिशीलनेन ज्ञायते । परन्तु इदानीं पेरियवाच्चान् पिळ्ळै कृतं द्राविडव्याख्यानम् तथा

वेदान्तदेशिकभाष्यं; सुदर्शनसूरिकृतं शरणागतिगद्यस्य व्याख्यानम् लभ्यते ।

 
ग्रन्थकर्तॄणां तथा व्याख्याकाराणां संक्षिप्त परिचय:-

 
९. श्रीभगवद्रामानुजाचार्या :
 
-
 

 
एते च भाष्यकारा : भगवद्रामानुजाचार्या : तमिल्नाडु प्रान्तीये श्रीमति

भूतपुरीनाम्नयग्रहारे कृतावतारा: । 'श्रीपेरुम्बुदूर्' इति द्राविडभाषानाम । क्रिस्ताब्दः

१०१७ तः, ११३७ पर्यन्तः एषां जीवितकालः इति गुरुपरम्परावैभवादवगम्यते ।
 

 
'चैत्रा (मेषा)
संभवं विष्णोः दर्शनस्थापनोत्सुकम् ।

तुण्डीरमण्डले शेषमूर्ति रामानुजं भजे' ॥