This page has been fully proofread once and needs a second look.

श्रीवैकुण्ठगद्यम्
 
अनालोचित-गुणागणाखण्ड
अनवधिकातिशय-गुणवत्तया,
 
जनानुकू लामर्यादशीलवतः स्वाभाविक -
-
अनवधिकातिशय-गुणवत्तया,
देव -तिर्यङ्- मनुष्याद्यखिलजन-
हृदयानन्दनस्य;
 
-
 
आश्रित-वात्सल्यैकजलधे:, भक्तजन-संश्लेषैकभोगस्य; नित्य-ज्ञान-क्रियैश्वर्यादि-
भोग-सामग्री- समृद्धस्य, महा-विभूतेः श्रीमतः चरणारविन्दयुगलम्; अनन्यात्म-
सञ्जीवनेन तद्गत सर्वभावेन, शरणमनुव्रजेत् ॥ २ ॥
 
106
 

[भगवतः शुभाश्रयस्वरूपस्य यावदायुषम् अहरहश्चिन्तनम् स्वरूपाप्रच्युतये]

ततश्च प्रत्यहम् आत्मोज्जीवनायैवमनुस्मरेत् ॥ ३ ॥
 

[भगवल्लोक-भगवदायतन-भगवन्मण्टप-
भगवत्पर्यङ्ङ्काः]
 

चतुर्दशभुवनात्मकमण्डम्, दशगुणितोत्तरं च आवरणसप्तकम् ; समस्तं

कार्यकारणजातमतीत्य; परमव्योमशब्दाभिधेये; ब्रह्मादीनां वाङ्मनसागोचरे ;
; श्रीमति वैकुण्ठे, दिव्यलोके; सनक - -विधि-शिवादिभिरप्यचिन्त्यस्वभावैश्वर्यैः, नित्यसिद्धैः,
अनन्तैः, भगवदानुकूल्यैक-भोगैः, दिव्यपुरुषैः महात्मभिरा- पूरिते, तेषामपि, इयत्परिमाणम्,
इयदैश्वर्यम्, ईदृशस्वभावम्, इति परिच्छेत्तुमयोग्ये; दिव्यावरण- शतसहस्रावृते;
दिव्यकल्पकतरूपशोभिते; दिव्योद्यान- शतसहस्रकोटिभिरावृते; अतिप्रमाणे,
दिव्यायतने, कस्मिंश्चित् विचित्रदिव्यरत्नमय - -दिव्यास्थानमण्टपे; दिव्यरत्नस्तम्भ-
शतसहस्त्रकोटि- भिरुपशोभिते; दिव्यनानारत्न - -कृतस्थल - -विचित्रिते; दिव्यालङ्कारालङ्कृते;

परितः पतितैः, पतमानैः, पादपस्थैश्च नानागन्धवर्णैः, दिव्यपुष्पैश्शोभमानैः,

दिव्यपुष्पोपवनैरुपशोभिते; सङ्कीर्ण-पारिजातादि - -कल्पद्रुमोपशोभितैः, असङ्कीर्णेश्च
कैश्चित् अन्तस्थ - -पुष्परत्नादि-निर्मित- दिव्य-लीलामण्टप- शत सहस्रोपशोभितैः,
सर्वदाऽनुभूयमानैरपि अपूर्ववत् आश्चर्यमावहद्भिः, क्रीडाशैलशतसहस्त्रैरलङ्कृतैः;
 
1
 

र.र. मुक्तितत्साधनपरम्; अपि तु 'ज्ञानी तु परमैकान्ती परायत्तात्मजीवन:' (गी. सं. २९)
इत्यादिप्रसिद्धे अत्रत्यावस्थाविशेषे मरुदेशपथिकपानीय न्यायेन अलभ्यलाभाश्वासनाभिप्रायम् ।
 

तेषामपीयत्परिमाणमियदैश्वर्यमीदृशस्वभावमिति परिच्छेत्तुमयोग्ये इति

दिव्यायतनविशेषणे तु महत्तरत्वमेव विवक्षितम्, दिव्यावरणसंवृतत्वादि कथनेनैव
तत्परिमाणसिद्धेः । अत्र स्वभावशब्दोऽपि निरतिशयभोग्यत्वादि विषयः । न ह्येवंविधविषयेषु