This page has been fully proofread once and needs a second look.

श्रीधराय नमः
श्रियै नमः
श्रीमते रामानुजाय नमः
श्रीभगवद्रामानुजविरचिते गद्यत्रये
श्री वैकुण्ठ गद्य म्
[भक्तियोगाख्यश्रेष्ठार्थसन्दर्शनप्रतिज्ञा]
यामुनार्यसुधाम्भोधिम् अवगाह्य यथामति ।
आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम् ॥ १ ॥
[ भगवति शरण्यता, जीवदेवयोः सम्बन्धः जीवस्य प्रपत्तीतरोपायराहित्यं
चिन्तनपूर्वकं शरणागतिविधानम् ]
स्वाधीन-त्रिविध-चेतनाचेतन-स्वरूप-स्थिति-प्रवृत्ति-भेदम्, क्लेशकर्माद्य शेष-दोषासंस्पृष्टम् स्वाभाविकानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेज:प्रभृत्यसङ्ख्येयकल्याणगुणगणौघ-महार्णवम्; परमपुरुषं, भगवन्तं नारायणम्; स्वामित्वेन, सुहृत्वेन, गुरुत्वेन च, परिगृह्य; ऐकान्तिकात्यन्तिक-तत्पादाम्बुजद्वय-परिचर्यैकमनोरथः, तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेः, अन्यन्न मे कल्पकोटिसहस्त्रेणाऽपि साधनमस्तीति मन्वानः तस्यैव भगवतो नारायणस्य; अखिल-सत्त्वदयैक-सागरस्य,
र.र. - अनया गद्यद्वयोक्तगमनिकयैव श्रीवैकुण्ठगद्यमपि गतार्थप्रायम् । एतयोः स्वानुष्ठानोक्तिमुखेन शिष्यशिक्षणं कृतम्; तस्मिंस्तु उपदेशमुखेनेति विशेषः । तत्र यदादौ पठ्यते
'यामुनार्यसुधाम्भोधि अवगाह्य यथामति ।
आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम्' ॥
इति; इहासौ भक्तियोगशब्दः स्वयंप्रयोजनभगवदनुसन्धानपरः ; अन्यथा, तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेरन्यत्र मे कल्पकोटिसहस्रेणापि साधनमस्तीति मन्वानः इति वक्ष्यमाणविरोधात् । अत एव 'प्रत्यहमात्मो ज्जीवनाय' इत्यादिकमपि न