This page has been fully proofread once and needs a second look.

श्रीधराय नमः

श्रियै नमः

श्रीमते रामानुजाय नमः

श्रीभगवद्रामानुजविरचिते गद्यत्रये
 

श्री वैकुण्ठ गद्य म्
 

[भक्तियोगाख्यश्रेष्ठार्थसन्दर्शनप्रतिज्ञा]
 

यामुनार्यसुधाम्भोधिम् अवगाह्य यथामति ।
 

आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम् ॥ १ ॥
 

[ भगवति शरण्यता, जीवदेवयोः सम्बन्धः जीवस्य प्रपत्तीतरोपायराहित्यं
 

चिन्तनपूर्वकं शरणागतिविधानम् ]
 
-
 

स्वाधीन - -त्रिविध - -चेतनाचेतन -स्वरूप -स्थिति- प्रवृत्ति-भेदम्, क्लेशकर्माद्य शेष-
दोषासंस्पृष्टम् स्वाभाविकानवधिकातिशय-ज्ञान- बलैश्वर्य-वीर्य-शक्ति-तेज:-
परमपुरुषं, भगवन्तं नारायणम्;
न, सुहृत्वेन, गुरुत्वेन च, परिगृह्य; ऐकान्तिकात्यन्तिक-तत्पादाम्बुजद्वय
परिचर्यैकमनोरथः, तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेः, अन्यन्न मे कल्पकोटिसहस्त्रेणाऽपि
साधनमस्तीति मन्वानः तस्यैव भगवतो नारायणस्य; अखिल सत्त्वदयैक- सागरस्य,
 
प्रभृत्यसङ्ख्येयकल्याणगुणगणौघ-महार्णवम्;
 
परमपुरुषं, भगवन्तं नारायणम्; स्वामित्वेन, सुहृत्वेन, गुरुत्वेन च, परिगृह्य; ऐकान्तिकात्यन्तिक-तत्पादाम्बुजद्वय-परिचर्यैकमनोरथः, तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेः,
 
"
 
-
 
-
 
न्यन्न मे कल्पकोटिसहस्त्रेणाऽपि साधनमस्तीति मन्वानः तस्यैव भगवतो नारायणस्य; अखिल-सत्त्वदयैक-सागरस्य,
र.र. - अनया गद्यद्वयोक्तगमनिकयैव श्रीवैकुण्ठगद्यमपि गतार्थप्रायम् । एतयोः
स्वानुष्ठानोक्तिमुखेन शिष्यशिक्षणं कृतम्; तस्मिंस्तु उपदेशमुखेनेति विशेषः । तत्र
यदादौ पठ्यते
 

'यामुनार्यसुधाम्भोधि अवगाह्य यथामति ।
 

आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम्' ॥
 

इति; इहासौ भक्तियोगशब्दः स्वयंप्रयोजनभगवदनुसन्धानपरः ; अन्यथा, तत्प्राप्तये
च तत्पादाम्बुजद्वयप्रपत्तेरन्यन्नत्र मे कल्पकोटिसहस्त्रेणापि साधनमस्तीति मन्वानः
इति वक्ष्यमाणविरोधात् । अत एव 'प्रत्यहमात्मो ज्जीवनाय' इत्यादिकमपि न