This page has not been fully proofread.

श्रीधराय नमः
श्रियै नमः
श्रीमते रामानुजाय नमः
श्रीभगवद्रामानुजविरचिते गद्यत्रये
 
श्री वैकुण्ठ गद्य म्
 
[भक्तियोगाख्यश्रेष्ठार्थसन्दर्शनप्रतिज्ञा]
 
यामुनार्यसुधाम्भोधिम् अवगाह्य यथामति ।
 
आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम् ॥ १ ॥
 
[ भगवति शरण्यता, जीवदेवयोः सम्बन्धः जीवस्य प्रपत्तीतरोपायराहित्यं
 
चिन्तनपूर्वकं शरणागतिविधानम् ]
 
-
 
स्वाधीन - त्रिविध - चेतनाचेतन स्वरूप स्थिति- प्रवृत्ति-भेदम्, क्लेशकर्माद्यशेष-
दोषासंस्पृष्टम् स्वाभाविकानवधिकातिशय-ज्ञान- बलैश्वर्य-वीर्य-शक्ति-तेज:-
परमपुरुषं, भगवन्तं नारायणम्;
न, सुहृत्वेन, गुरुत्वेन च, परिगृह्य; ऐकान्तिकात्यन्तिक-तत्पादाम्बुजद्वय
परिचर्यैकमनोरथः, तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेः, अन्यन्न मे कल्पकोटिसहस्त्रेणाऽपि
साधनमस्तीति मन्वानः तस्यैव भगवतो नारायणस्य; अखिल सत्त्वदयैक- सागरस्य,
 
प्रभृत्यसङ्ख्येयकल्याणगुणगणौघ-महार्णवम्;
 

 
"
 
-
 
-
 
र.र. - अनया गद्यद्वयोक्तगमनिकयैव श्रीवैकुण्ठगद्यमपि गतार्थप्रायम् । एतयोः
स्वानुष्ठानोक्तिमुखेन शिष्यशिक्षणं कृतम्; तस्मिंस्तु उपदेशमुखेनेति विशेषः । तत्र
यदादौ पठ्यते
 
'यामुनार्यसुधाम्भोधि अवगाय यथामति ।
 
आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम्' ॥
 
इति; इहासौ भक्तियोगशब्दः स्वयंप्रयोजनभगवदनुसन्धानपरः; अन्यथा, तत्प्राप्तये
च तत्पादाम्बुजद्वयप्रपत्तेरन्यन्न मे कल्पकोटिसहस्त्रेणापि साधनमस्तीति मन्वानः
इति वक्ष्यमाणविरोधात् । अत एव 'प्रत्यहमात्मोज्जीवनाय' इत्यादिकमपि न