This page has been fully proofread once and needs a second look.

रहस्यरक्षाव्याख्योपेतश्रीरङ्गनाथ ! मम नाथ ! नमोऽस्तु ते ॥ ७ ॥
॥ इति श्रीभगवद्रामानुजविरचितं श्रीरङ्गद्यं स
म्
 
पूर्णम् ॥
॥ श्रीमते रामानुजाय नमः ॥
रऱ
.र..
 
103
 
-'सन्दर्शनादकस्माच्च पुंसां सम्मूढचेतसाम् ।
 

कुवासना कुबुद्धिश्च कुतर्कश्च कुनिश्चयः ॥
 

कुहेतुश्च कुभावश्च नास्तिकत्वं लयं व्रजेत्' । (पौ.सं. १- ३१, ३२) इति ।

स्थानविशेषोऽप्यत्र सेवकानां सत्त्वोन्मेषहेतुत्वाभिप्रायेणोपात्तः । स्वयंव्यक्त सैद्धवैष्णवरूप-
भगवत्क्षेत्रवासिनामपि फलविशेषः प्रदर्शितः । श्रीसात्वते -
 
-
 
श्रीरङ्गनाथ ! मम नाथ ! नमोऽस्तु ते ॥ ७ ॥
॥ इति श्रीभगवद्रामानुजविरचितं श्रीरङ्गद्यं सम्पूर्णम् ॥
॥ श्रीमते रामानुजाय नमः ॥
 

'दुष्टेन्द्रियवशाञ्च्चित्तं नृणां यत् कलुषैर्वृतम् ।
 

तदन्तकाले संशुद्धिं याति नारायणालये' ॥ (सा.सं. ७-१२०) इति ।

तत्रापि स्वाचार्यपरम्पराचिरसेवनजनितप्रसादातिशयात् स्वदोषानादरेण स्वस्यैवं-
विधावस्थाप्रदत्वेन प्रार्थितपूरणानुगुणतामभिप्रेत्याह- मम नाथ इति । स्वापेक्षितसिद्ध्यर्थं
याचनीयः स्वामी नाथः । एवमभिमुखीकृते भगवति प्रकृतोपायस्य भरन्यासरूपं प्रधानांशं
दमयन्त्यादिवृत्तान्तेषु शरणागति विषयतया प्रसिद्धेन भगवच्छास्त्रोक्तस्थूलसूक्ष्मादियोजनवता
नमःशब्देन निगमयन्, प्रयुज्यमानः सोऽयमुपायस्त्वच्छेषतयैव स्वीक्रियतामित्यभिप्राये- णाह
- नमोऽस्तु ते इति । यद्वा, अत्र परत्र च अपेक्षितं निर्ममत्वसंस्कृतं कैङ्कर्यं नमः -
शब्दाभिप्रेतम् । अस्तु इति आशासनम् । ते इत्यत्र प्रकृत्यं- शेन प्राप्यत्वप्रापकत्वशेषित्वादि-
शालितया निरुपाधिकनमःप्रयोगयोग्यत्वम- भिप्रेतम् । चतुर्थी च अत्र तादर्थ्यपरा ।
इदमेव वाक्यम् आवर्त्यमानं पृथुगद्योक्तस्य प्रतिवचनविस्तरस्य सङ्ग्रहोऽपि भवति;
सूत्रादिष्विव प्रयोजनप्रकर्षे सत्यावृत्तेरभियुक्तसंमतत्वात् ।
 

तत्रायमर्थः - मत्प्रपन्नस्य ते यथामनोरथं मत्कैङ्कर्यं भवतु इति । तदेवं

रहस्यत्रयोक्तशरण्यशरणागतितत्फलविशेषाः सन्दर्शिताः ।
 

'यदत्र संग्रहेणोक्तमनुक्तमपि किञ्चन ।
 

बृहद्गद्याधिकारे तद्व्यक्तं प्रत्यवमृश्यताम्' ॥

॥ इति रहस्यरक्षायां श्रीरङ्गगद्याधिकारः समाप्तः ॥