2023-04-07 05:36:11 by ambuda-bot
This page has not been fully proofread.
102
अनवरतविदित - निखिल-भूतजात-याथात्म्य !
सत्यकाम! सत्यसङ्कल्प ! आपत्सख ! काकुत्स्थ !
श्रीमन् ! नारायण ! पुरुषोत्तम !
श्रीरङ्गगद्यम् -
र.र. - कारुण्यादिसद्भावेऽप्यज्ञस्यापूर्णस्याशक्तस्य च निरपेक्षरक्षकत्वं न स्यात्,
अतस्तत्सिद्ध्यर्थं गुणत्रयम् अनवरत इत्यादिभिरुच्यते । अनवरतनिखिलशब्दाभ्यां ज्ञानस्य
कालतो विषयतश्च निःसङ्कोचत्वोक्तिः; मम अनिष्टनिवर्तनेष्टप्रापणोपयोगिष्वधिकारादिषु
किञ्चिदपि कदाचिदपि तवाज्ञातं नास्तीति भावः । न च तव मादृशाकिञ्चनपरित्यागहेतुभूत-
प्रत्युपकारपूर्वोपकारादिप्रयोजनान्तरसापेक्षत्वं गुणवैकल्यं वा कदाचिदप्यस्ति; अतो मद्रक्षणेन
स्वगुणान् संरक्षेत्यभिप्रायेणाह- सत्यकाम इति । नित्यभोग्यानन्तकल्याणगुणादिविशिष्टेत्यर्थः ।
सङ्कल्पमात्रसाधितजगत्सृष्ट्यादेस्तव मद्रक्षणेऽपि न हि सङ्कल्पादतिरिक्तं
सम्पादनीयमित्यभिप्रायेणाह- सत्यसङ्कल्प इति । अमोघसङ्कल्पेत्यर्थः । त्वयैव
ख्यापितं प्रपन्नविषयं त्वद्व्रतं न कैश्चिदपि प्रतिहन्तुं शक्यमिति भावः ।
उक्तगुणवर्गहेतुकद्रौपदीगजेन्द्रादिसंरक्षणप्रकारं तद्वत् स्वस्याप्यापत्प्रशमनायोद्घाटयति
आपत्सख इति । आपदि सखा भवतीति आपत्सखः; सखेव प्रीतिविश्वासगोचरः
संरक्षकश्चेति भावः । तदेतत् निषादवानरराक्षससर्वजातिसुलभे सकृत्प्रपन्नसंरक्षणव्रतिनि
सर्वलोकशरण्ये विषयवासमात्रसंरक्षितजङ्गमस्थावरजन्तुजाते अवतार विशेषे
सुव्यक्तमित्यभिप्रायेणाह - काकुत्स्थ इति । अनेन 'वधार्हमपि काकुत्स्थः कृपया पर्यपालयत्'
(रा.सुं.३८-३४) इत्यादिवाक्यमपि स्मार्यते । अस्य सापराधेष्वप्याश्रितेषु
निग्रहोष्मलतानिवारिकया सहधर्मचारिण्या नित्ययोगमाह - श्रीमन् इति । परहितेष्वपि
स्वार्थप्रवृत्त्यनुगुणसम्बन्धादिविशेषं व्यनक्ति - नारायण इति । इदं च पदद्वयं व्याख्येयगत-
विशिष्टसिद्धोपायोपेयप्रकाशकम् । नारायणशब्दवाच्य-जगत्सम्बन्धादिशङ्कितदोषनिवृत्त्यर्थं
पञ्चदशाध्यायोक्तं काष्ठाप्राप्तं परत्वरूपं वैलक्षण्यं समाख्याति पुरुषोत्तम इति ।
पुरु सनोतीति पुरुषशब्दव्युत्त्पत्त्या बहुप्रदेषूत्तमत्वं वा विवक्षितम्- स्वाश्रितेभ्यः स्वात्मानमपि
सविभूतिकं ददातीति । सर्वापेक्षितसाधकसेवानुगुणां सौलभ्यकाष्ठां सूचयति - श्रीरङ्गनाथ
इति । उक्तं च अर्चावतारं प्रस्तुत्य भगवता शौनकेंन -
-
-
'तामर्चयेत् तां प्रणमेत् तां यजेत् तां विचिन्तयेत् ।
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम्' ॥ (वि.ध.१०३-३०) इति ।
श्रीपौष्करे तु अर्चावतारस्योपायविरोधिवर्गनिवर्तकत्वमपि दर्शितम् -