2023-04-07 05:36:11 by ambuda-bot
This page has not been fully proofread.
रहस्यरक्षाव्याख्योपेतम्
101
एतदुच्चारणमात्रावलम्बनेन;
उच्यमानार्थ - परमार्थनिष्ठं मे मनः,
त्वमेवाद्यैव कारय ! ॥ ६ ॥
[भगवति नमनीयताचिन्तनपूर्वकं स्वाभाविकं नमनम् ]
अपारकरुणाम्बुधे ! अनालोचितविशेषाशेषलोकशरण्य ! प्रणतार्तिहर!
आश्रितवात्सल्यैकमहोदधे !
र.र. - एवमधिकारवैकल्यं, अङ्गवैकल्यं, अङ्गिवैकल्यं च अन्वारुह्योक्तम्- उच्चारणमात्रा
इति । वैषम्यदोषप्रसङ्गपरिहारहेतुस्तव सिद्ध इत्यभिप्रायेण अवलम्बनशब्दः । उच्यमानार्थ:-
उपायोपेयरूपः । एतत् शब्दोऽप्यत्र तद्विषयः । अन्यतरविषयत्वेऽपि तदितरस्यार्थात्
सिद्धिः । परमार्थनिष्ठत्वं अज्ञानसंशयविपर्ययरहितव्यवसायानुवृत्तिमत्त्वम् । मे - 'सकृदुचारो
भवति' (द्वयोपनिषत्) 'सकृदुञ्चरितं येन' (वि.ध. ७०-८४), 'भव शरणमितीरयन्ति ये
वै' (वि.पु. ३-७-३३) इत्याधुक्तवचनमात्रधनस्य त्वदायत्तसर्वसिद्धेः मनः - 'चञ्चलं हि
मनः कृष्ण!' (भ.गी.६-३४) 'मनो दुर्निग्रहं चलम्' (भ.गी. ६-३५) 'बन्धाय विषयासङ्गि'
(वि.पु. ६-७-२८) इत्याद्युक्तदोषमपि हृषीकेशेन त्वया अनुगृहीतानां सम्यङ्मननसाधनम् ।
शरण्यस्यापेक्षणीयान्तराभावम्, आत्मनस्त्वरातिशयं च व्यनक्ति- त्वमेवाद्यैव इति ।
कारय इत्यनेन प्रपत्तावपि स्वस्य प्रयोज्यकर्तृत्वं अध्यात्मशास्त्रैराचार्यमुखेनान्तर्यामितया
च भगवतः प्रयोजककर्तृत्त्वं च प्रकाश्यते । अविकलप्रपत्तिप्रयोगस्यापि भाष्यकारस्येदं वाक्यं
विकलप्रयोगाणामन्येषामपि शरण्यानुकम्पया क्षिप्रमुपायपूर्तिः स्यादिति ख्यापनार्थम् ।
अथाधिकारोपायफलप्रदानेषु यथार्हमुपयुक्तान् भगवतः प्रकारान् वदन्, प्रथमं
सर्वोपयोगिगुणविशेषप्रकर्षमाह - अपार इति । स्वस्मिन्नपि व्याप्तिमभिप्रेत्य अपारत्वोक्तिः ।
तत्फलितं स्वेनाप्याश्रयणीयत्वमभिप्रेत्याह - अनालोचित इति । जातिगुणादिनिकर्षानादरेण
सर्वैः शरण्यतया वरणीयेत्यर्थः । अनेन प्रपत्तेः सर्वाधिकारत्वं दर्शितम् । कारुणिकोऽपि यदि
विषमः स्यात्, समोऽपि यदि निर्घृणः स्यात्, न तदा सर्वशरण्यः स्यादिति तदर्थमुभयोक्तिः ।
शरणागतिसमनन्तरलक्षणीयौ गुणावाह प्रणतार्तिहर! आश्रितवात्सल्यैकमहोदधे !
इति । प्रणताः इह प्रकृष्टप्रीभावयुक्ताः प्रपन्नाः, तेषां तत्तदभिमतालाभनिमित्तां
आतिं हरतीति प्रणतार्तिहरः । अनेन तु प्रपत्तेः सकलफलप्रदत्वं च सूच्यते । प्रणतशब्दस्य
प्रवीभावमात्रपरत्वे तदार्तिहरणादल्पप्रयत्नप्रसाद्यत्वं प्रकाश्यते । वात्सल्येन
गुणान्तरतिरस्कारमभिप्रेत्य एकशब्दः, येन सर्वज्ञोऽप्यविज्ञातेव, स्वतन्त्रोऽप्यस्वतन्त्र
इव स्यात् ।
-