2023-04-07 05:36:10 by ambuda-bot
This page has not been fully proofread.
100
सर्वावस्थोचिताशेष- शेषतैकरतिस्तव ।
भवेयं पुण्डरीकाक्ष ! त्वमेवैवं कुरुष्व ! माम् ॥ ५ ॥
एवम्भूत-तत्त्वयाथात्म्यावबोध-तदिच्छारहितस्यापि,
श्रीरङ्गगधम् -
र.र. - अनन्योपायस्य च । कृपया नाथ इति पदाभ्यां गुणविशेषसम्बन्धविशेषविशिष्टस्योपायभाव
इति व्यज्यते; नाथशब्दो हि नाथ्यते इति व्युत्पत्या रक्षणार्थं प्रार्थनीये स्वामिनि रूढः । न
जाने गतिमन्यथा इति । उक्तप्रकारात् प्रपत्तिमात्रवशीकार्यात् त्वत्तोऽन्यथाभूतं
मदर्हमुपायं सर्वशास्त्रपरामर्शेऽपि न पश्यामि, देवतान्तराणां साक्षात् मोक्षप्रदत्वाभावात्
मोक्षोपायतया चोदितस्य त्वदुपासनस्य मया दुःसाधत्वादिति भावः । यद्वा, अन्यथा
इति अनेन त्वय्यदातरीति विवक्षितम् ॥
1
-
एवं प्रार्थिते कैङ्कर्यरूपे पुरुषार्थे प्रीतिशब्दोक्तं हेत्वंशं विशिषन्, स्वाभीष्टप्रदाने
स्वप्रयत्नान्तरनैरपेक्ष्यं च अपेक्षते सर्व इति । सर्वावस्थाशब्दशेषताशब्दी पूर्वोक्तार्थी ।
तत्तद्दशायां स्वाम्यभिमतप्रकार उचितशब्दः । 'जायमानं हि पुरुषम्' (म.भा.शां.३५८-७३)
'कृपामयमपाङ्गं ते सकृन्मयि निपातय' (वि.ध.) इत्याधुक्तेन सत्त्वोन्मेषहेतुना
कटाक्षविशेषेण मामेवं कुरुष्वेत्यभिप्रायेणोक्तम्- पुण्डरीकाक्ष इति । यद्वा 'पुण्डरीकं परं
धाम' (म.भा.शां.६९-६) इत्यादिनिरुक्तेनानेन नाम्ना परमपदवासिनः परिचरणं प्राथ्र्यत इति
सूच्यते । त्वदितराशक्ये अस्मिन्नथें त्वयि च निरपेक्षोपाये किमीदृशभरन्यास
रूप्मव्याजातिरिक्तमत्प्रयत्नेनेत्यभिप्रायेणाह त्वमेव इति । त्वम् - सर्वज्ञः सर्वशक्तिः
परमकारुणिकः । माम् आकिंचन्यानन्यगतित्वार्थित्वशालिनम् । जितोर्धात्वोरिह
देहि कुरुष्व इति परस्मैपदात्मनेपदाभ्यां स्वस्य भगवतश्च यथार्ह क्रियाफलान्वयः सूच्यते
✔
=
नन्विह शरण्यशरणागतितत्फ लविशेषनिर्धारणपूर्णिका फलकामना हि
अधिकारिविशेषणम्, न पुनस्तद्वत इव तथाविधतद्वचनमात्रमित्यत्र 'अनिच्छन्नप्येवम्
(स्तो. इ. ५९) इति श्लोकोक्तप्रकारेण सप्रश्रयं प्रतिवक्ति एवंभूत इति । तदिच्छा
इति इच्छाविषयत्वेन परामृश्यमानार्थत्वात् तत्त्वशब्द इह पुरुषार्थपरः, पुरुषार्थविशेष-
निष्कर्षा जीवात्मपरमात्मतत्त्वपरो वा । अवबोध इच्छा वा तदिच्छा इत्युच्यते तदा
पुरुषार्थच्छाविरहः कैमुत्यात् सिद्ध्यति । श्रियः पत्युस्तव प्रसादादद्य साधिकारोऽस्मि,
निरधिकारत्वेऽपि लब्धव्याजेन त्वया शेषपूरणं कार्यमिति द्योतयितुम् अपिशब्दः ।