This page has been fully proofread once and needs a second look.

रहस्यरक्षाव्याख्योपेतम्
 
99
 
अर्थित्वमात्रेण-परमकारुणिको भगवान्;
 

स्वानुभवप्रीत्योपनीतैकान्तिकात्यन्तिक-
नित्यकैङ्ङ्कर्येकरतिरूप - नित्यदास्यं
-दास्यतीति विश्वासपूर्वकं; भगवन्तं नित्यकिङ्करतां प्रार्थये ॥ ३ ॥
 

[भगवदनुभवकारित प्रीतिजन्यदास्यादिकानुग्रहप्रार्थना]

तवाऽनुभूति - सम्भूत-प्रीति-कारित-दासताम् ।

देहि मे कृपया नाथ ! न जाने गतिमन्यथा ॥ ४ ॥
K
 

र.र. - इत्युक्तप्रकारविशेषोपलक्षितप्रकारिवैशिष्ट्याभिप्रायेणाह - एवम् इति ।
एवमवस्थितस्य इत्यनेन अधिकारवैगुण्यं विरोधिभूयस्त्वं च पूर्व वाक्योक्तमेव शरण्यगुणप्रकर्ष-
व्यञ्जनायानूदितम् । अर्थित्वमात्रेण इति उपायलाघवोक्तिः; अहृदयप्रार्थनावाक्यमात्रमपि,
'नेहाभिक्रमनाशोऽस्ति' (भ.गी. २-४०) इति न्यायात् अन्ततः कार्यकरमिति भावः ।
अथवा, अत्र सकृत्कर्तव्यभरन्यासलक्षणतया सद्यः स्वाभीष्टसिद्धिः । स्वानुभवप्रीति

इत्यादिना प्राप्यगौरवप्रकाशनम् । उक्तैर्हेतुभिः सम्भवन्तीं शङ्कामपाकर्तुं परमकारुणिको
भगवान् इति सुलभत्वपरत्वसूचक
सुलभत्वपरत्वसूचक
पदद्वयोक्तिः;
क्ति:;

ईदृशस्य हि सर्वविधिनिवर्तनार्हता ।
समर्थस्य निर्दयत्वे, दयालोश्चासमर्थत्वे शरण्यत्वं न स्यादिति तत्सिद्ध्यर्थमुभयोक्तिः ।
स्वानुभव इत्यत्र स्वशब्दः परमात्मविषयः । ऐकान्तिकत्वम् अनन्यविषयत्वम् ।
आत्यन्तिकत्वम् इह फलान्तरोपाधिकनिवृत्तिरहितत्वम्, अत एव पश्चाद् यावत्कालम्

अनुवर्तमानत्वं वा । दास्यकिङ्करताशब्दाविह वृत्तिपरौ । रतिशब्देन विश्वासस्य
महत्त्वरूपप्रकारोऽभिप्रेतः । प्रार्थनाशब्दस्य इच्छामात्रेऽपि प्रयोगसम्भवात् तद्व्यावृत्त्यर्थं
'तदेकोपायता याञ्चा' (भरतमुनिवाक्यम्) इत्युक्तयाचनरूपत्वं व्यञ्जयितुं द्विकर्मकप्रयोगः ।
 

सर्वस्य प्रार्थितप्रदानसामर्थ्यम्, कैङ्कर्यप्रतिसम्बन्धिनस्तस्योभयलिङ्गत्वं च ज्ञापयितुं
भगवन्तम् इत्युक्तम् । अस्मिन् वाक्ये प्रातिकूल्यवर्जनस्य आनुकूल्यसङ्कल्पस्य च
अर्थसिद्धत्वम् अवगन्तव्यम् ।
 

उक्तप्रकारसाध्यसाधनरूपमर्थद्वयं व्याख्येयक्रमेण सुखप्रतिपत्त्यर्थम् ऐतिहासिक-
श्लोकद्वयेन स्ववाक्यायमानेन संक्षिप्याह - तव इति । यद्यपि प्रथमश्लोकेऽपि पूर्वार्धे
फलमुपादीयते, तथाऽप्यसौ देहि इत्युक्तप्रार्थना प्राधान्यादुपायपरः । अत्र दासताशब्देन
दासवृत्तिर्विवक्षिता, दासभाव- मात्रस्य च नित्यसिद्धत्वेन साध्यत्वायोगात् । मे अनन्यप्रयोजनस्य