This page has been fully proofread once and needs a second look.

98
 
श्रीरङ्गगद्यम् -
 
निखिलजन्तुजातशरण्य !
 

श्रीमन् ! नारायण! तव चरणारविन्दयुगलं शरणमहं प्रपद्ये ॥ २ ॥

[शरण्ये भगवति महाविश्वासपूर्वकं नित्यकिङ्करतालाभप्रार्थना]

एवमवस्थितस्याऽपि
 

र.र. - निखिलजन्तुजातशरण्य इति । हिरण्यगर्भादीनामपि सङ्ग्रहाय निखिलशब्दः; तेऽपि
हि कर्माधीनजन्मभागितया जन्तवः ।
 

'पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः ।
 

तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम्' ॥ (शां. स्मृ. १-१५)

'एतन्निष्ठस्य मर्त्यस्य मुक्तिर्हस्तस्थिता सदा ।
 

तत्सम्बन्धिन एवापि मुक्तिमेष्यन्ति वै ध्रुवम्' ॥ (भा.स्मृ.)

इत्याद्यर्थमभिप्रेत्य जातशब्दः । स च अत्र गुणप्रधानतया अन्वितव्रातपरः ।
 

पूर्वखण्डपदक्रमानुसारेण श्रीमत् इत्यादीनि पदानि । श्रीमत् शब्देन 'लक्ष्म्या सह
हृषीकेशः' (ल.तं.२८-१४) इत्याद्युक्तं सूच्यते । सर्वशरण्य- त्वौपयिकसम्बन्धगुण-
विशेषादिप्रदर्शनाय नारायणशब्दः । कृपोत्तम्भक- त्वातिशयादौचित्याञ्च्च चरणग्रहणम् ।
उपायदशायामपि भोग्यत्वसूचनाय अरविन्दत्वरूपणम् । शरणशब्दः इहोपायपरः ।
उत्तमपुरुषविवक्षिताधि- कारिविशेषव्यञ्जनाय अहंशब्द:; अधिकारविरहादुपायान्तरेषु निराशः,

प्रत्यवायभयादिदानीमपायेभ्य उपरतः, शरण्यगुणविवेकादतिशङ्कानिर्मुक्त:, संसारे
दोषदर्शनात् परित्यक्तप्रयोजनान्तरतदुपायः, परमपुरुषार्थसङ्गात् प्रार्थनान्वितभरन्यासो-
द्यतश्चेति भावः । शरणं प्रपद्ये - उपायतया आश्रयामि । अकिञ्चनोऽनन्यगतिरहं श्रीमति
नारायणे स्वात्मरक्षाभरं निक्षिपामीत्युक्तं भवति । अत्र सविशेषणनारायणशब्देन विरोधिभूयस्त्व-
प्राप्यगौरवोपाय- लाघवादिमूलशङ्कानिरासहेतवः शरण्याकारा विवक्षिताः ॥
 

अथ तत्फलितं सोपसर्गधातूक्तम् 'रक्षिष्यतीति विश्वासादभीष्टोपाय कल्पनम्'
(ल.तं.१७-७७) 'गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम्' (ल.तं. १७-७८) इति विभज्य
निर्दिष्टमङ्गद्वयम् -
 

'प्रार्थनामात्रसन्तुष्टो जन्तोर्यच्छति वाञ्छितम् ।
 

इति निश्चित्य भगवत्प्रार्थना शरणागतिः' ॥ (अहि.सं.) ।