This page has been fully proofread once and needs a second look.

प्रस्तावना
 
शरणागति, श्रीरङ्ग, वैकुण्ठाख्यं द्वयविवरणरूपात्मकं गद्यत्रयम् । गद्यानां त्रयम्
गद्यत्रयम् । श्रीवैष्णवसम्प्रदाये रहस्यत्रयमस्ति तत् मूलमन्त्रं, द्वयं, चरमश्लोक इति ।
अष्टाक्षरमन्त्रः मूलमन्त्र: 'ओं नमो नारायणाय', 'द्वयं श्रीमन्नारायणचरणौ शरणं
प्रपद्ये', 'श्रीमते नारायणाय नमः, चरमश्लोकस्तु 'सर्वधर्मान्परित्यज्य मामेकं शरणं
व्रज' इत्यादि । तत्र द्वयविवरणरूपं गद्यत्रयम् । तदुक्तं पाञ्चरात्ररक्षायां - 'द्वयव्याख्यानरूपे
गद्यत्रये' इति । द्वयस्य पूर्वाङ्गः तिरुमन्त्रापरनामधेयमूलमन्त्रः साध्यनारायणाष्टाक्षरः
'ओं नमो नारायणाय' इति, उत्तराङ्गः भगवद्गीतोक्तेन चरमश्लोकः सर्वधर्मान् इति ।
एतेषामाहत्य रहस्यत्रयम् । 'द्वयमर्थानुसन्धानेन सह सदा एवं वक्ता यावत् शरीरपातम्'
इति भगवदाज्ञा एव मूलकारणम् । गद्यत्रयं प्रतिदिनं श्रीवैष्णवैः प्रपन्नजनैः प्रतिदिनमनुसन्धीयते ।
द्वयाख्यं शरणागतिमन्त्रः निष्ठाद्वयं बोधयति । उपायनिष्ठा, उपेयनिष्ठेति निष्ठाद्वयम् । परमात्मा
एव उपायः स एव उपेयः । साध्यं साधनं द्वयमपि स एव । जीवात्मा अथवा चेतनः
नित्यं उपायस्तरे अनुष्ठाय मोक्षानन्तरं उपेयस्तरे अनुष्ठेयः ।
 
उपायानुभवतः प्रक्रम्य उपेयानुभवे समाप्तिं गमिष्यति गद्यत्रये द्वयमन्त्रविवरणे ।
'त्वत्पादार विन्द युगलं शरणमहं प्रपद्ये' इत्यत्र उपायानुष्ठानानुभवः ।
'श्रीमत्पादारविन्दयुगलं शिरसि कृतं ध्यात्वा अमृतसागरान्तर्निमग्नसर्वावयवः
सुखमासीत' इति उपेयानुष्ठानानुभवः स अनुभवैकवेद्यः । एवं शरणागतिगद्ये, श्रीरङ्गगद्ये
च उपायभूतश्रीमन्नारायणं प्रति अखिलहेयप्रत्यनीकेत्यादि गुणविशेषणैः संस्तुत्य अन्ते
वैकुण्ठगद्ये प्राप्यभूत अनुभाव्यः वैकुण्ठं परमपदं वर्णयति । उपेयवस्तु एव प्राप्यः,
प्राप्यवस्तु एव परमात्मा । भगवद्वर्णनं एवं निरूपितम् । 'तत्र...... अनन्तभोगिनी
श्रीमद्वैकुण्ठैश्वर्यादि दिव्यलोकमात्मकान्त्या विश्वं आप्याययन्त्या शेषशेषाशनादि
सर्वं परिजनं भगवतः तत्तदवस्थोचितपरिचर्यायाम् आज्ञापयन्त्या शीलरूप-
गुणविलासादिभिः आत्मानुरूपया श्रिया सहासीनम्' इति । एवं तस्य अवयवसौन्दर्यं,
वैनतेयादिसेवा, भगवद्ध्यानादिपूर्वक आत्मसमर्पणं, अनुसन्धानं इत्यादि विषयाः