This page has not been fully proofread.

रहस्यरक्षाव्याख्योपेतम्
 
अचेतन - प्रकृति-व्याप्तिरूप-दुरत्यय-भगवन्माया तिरोहित-स्वप्रकाशः ;
अनाद्यविद्या-सञ्चित-अनन्ताशक्य - विस्रंसन-कर्मपाश-प्रग्रथितः,
अनागतानन्तकाल- समीक्षयाऽपि अदृष्टसन्तारोपायः,
 
-
 
-
 
र.र. -
 
'व्याप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च ।
 
स ह्यनादिरनन्तश्च परमार्थेन निश्चितः' ॥ (परम.सं.२) इति परमसंहितोक्तम्
अचेतनप्रकृतिव्याप्तिशब्दैर्दर्शितम् । प्रकृतौ व्याप्तिः अनुप्रवेशः; प्रकृतेर्व्याप्तिः सर्वतः
सम्बन्धः । अत्र तस्या इव तत्सम्बन्धस्यापि विचित्रसृष्ट्युपयोगित्वाविशेषात् मायात्वोक्तिः ।
दुरत्ययभगवन्माया इत्यनेन 'मम माया दुरत्यया' (भ.गी. ७ - १४) इति पदत्रयसूचनम् ।
यद्यप्यात्मस्वरूपं नित्यस्वप्रकाशम्; तथाऽपि तस्य भगवच्छेषत्वादिविशिष्टाकारगोचर-
धर्मभूतज्ञाननिरोधमभिप्रेत्य तिरोहितस्वप्रकाश इत्युक्तम् । स्वस्वरूपतिरोधानवचनेन
'भगवत्स्वरूपतिरोधानकरीम्' (श.ग.) इत्याद्युक्तमप्युपलक्ष्यते ।
 
97
 
प्रकृतेस्तिरोधायकत्वं कर्मोपाधिकम् । कर्म च भोगैस्तत्तत्प्रतिपदोक्तप्रायश्चित्तैर्वा
निश्शेषयितुमशक्यमित्यभिप्रायेणाह अनाद्यविद्या इति । अत्र अविद्याशब्देनाज्ञानं
देहात्मभ्रमादिकं च गृह्यते, तस्याश्च कर्महेतुत्वं रागद्वेषद्वारा । 'यद्ब्रह्मकल्प' (वै.स्त.६२)
इत्याद्युक्तप्रक्रियया अनाद्यविद्यासञ्चितत्वेन आनन्त्यात्, प्रत्येकं प्राबल्यान्च भगवद्व्यतिरिक्तैः
अशक्यविस्रंसनत्वम् ।
 
L
 
'पशवः पाशिताः पूर्वं परमेण स्वलीलया ।
 
तेनैव मोचनीयास्ते नान्यैर्मोचयितुं क्षमाः' ॥ (श्रीवि.त.१-२-१०)
इत्याद्युक्तसूचनाय कर्मणः पाशत्वरूपणम् । प्रग्रथितः दृढं निबद्धः; 'नाभुक्तं क्षीयते
कर्म' (ब्र.वै. २६ - ७०) इति हि स्मर्यते
 
-
 
उक्तप्रतिबन्धकभूयस्त्वात् 'त्वत्पादकमलादन्यत्' (जि.स्तो.१-१०) इत्याद्युक्तप्रकारेण
कालान्तरेऽप्युपायान्तरसम्भावनां प्राङ्न्यायेन प्रतिषेधति अनागत इति । वक्ष्यमाण-
श्रीमत्त्वनारायणत्वाभ्यां फलितम् 'सर्वस्य शरणं सुहृत्' (श्वे.उ.३-१७) 'देवानां दानवानां
च' (जि.स्तो.१-२) 'सर्वलोकशरण्याय' (रा.यु.१७-१५) 'विभीषणो वा सुग्रीव (धर्मात्मा)
यदि वा रावणः स्वयम्' (रा.यु.१८- ३५) इत्यादिप्रसिद्धं स्वसङ्ग्रहोपयुक्तं स्वभावमाह -
 
-