This page has been fully proofread once and needs a second look.

96
 
श्री रङ्गगद्यम्
 
नित्यकैङ्कर्यप्राप्त्युपायभूत-भक्ति- तदुपाय- सम्यग्ज्ञान-
तदुपाय-समीचीन क्रिया - -तदनुगुण- सात्त्विकताऽऽस्तिक्यादि-
समस्तात्म-गुण-विहीनः ; दुरुत्तरानन्त- तद्विपर्ययज्ञानक्रियानुगुणानादि-
पापवासना-महार्णवान्त र्निमग्नः; तिलतैलवत्-दारुवह्निवत्
दुर्विवेच- त्रिगुण-क्षणक्षरण-स्वभाव-

र.र. - भक्तिशब्द इह वेदान्तोदितसपरिकरभक्तियोगपरः । ज्ञानक्रिया शब्दाभ्यां ज्ञानकर्मयोगौ
विवक्षितौ; तयोः सम्यक्त्वं यथावस्थितसकलाङ्गोप संहारवत्वम् । ज्ञानयोगमन्तरेणापि
कर्मयोगेनैवात्मावलोकनपूर्वकभक्ति- योगाधिकारारोहणस्य 'भगवद्गीताभाष्य' (३-१९)
प्रपञ्चितस्याधिकारि विशेषनियततया तदनादरेणात्र स्वारसिकक्रमनिर्देशः । सात्विकता
'नित्य सत्त्वस्थ : ' (भ.गी. २-४५) इत्युक्तसत्त्वनिष्ठता; तस्याः फलम् आस्तिक्यादि गुणजातम् ।
अवस्थाभेदेन तस्या हेतुश्च । 'अमानित्वमदम्भित्वम्', (भ.गी. १३-७) 'दया सर्वेषु भूतेषु'
(वि.पु.३-८-५३) इत्याद्युक्तात्मगुणान्तर सङ्ग्रहाय समस्तशब्दः । प्रपत्त्यपेक्षितज्ञान-
विश्वासादेस्त्विह न प्रतिषेधः । एवमुपायान्तरतदुपायपरम्परहानिरुक्ता ।
 

 

अथ पूर्वं पश्चाच्च उपायप्रतिबन्धकापायपरम्परान्वयमाह - दुरुत्तर इति । दुरुत्तरत्वं
भगवत्सङ्कल्पमन्तरेण सनकादिभिरपि लङ्घयितुमशक्यत्वम् । तच्छब्देन पूर्वोक्तसम्यग्ज्ञानादि-
परामर्शः । विपर्ययशब्दोऽत्र विपरीतपरः; स च ज्ञानादिषु त्रिष्वन्वीयते । त्रयाणां हेतुः
पापवासना । बीजाङ्कुरन्याय सूचनाय अनादिशब्दः । पापानां वासना सजातीयपापान्तरारम्भ-
रुचिहेतु- भूतः स्वभावविशेषः । षडूर्मिसङ्कुलत्वादिविवक्षया महार्णवत्वरूपणम् ।
 

एवंविधस्य पापस्य आत्मतिरोधायकत्वप्रकारमाह - तिलतैलवत् इति । दृष्टान्तद्वयेन
'दारूण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि । प्रधानेऽवस्थितो व्यापी' (वि.पु.२-७-२८) इति वचनं
स्मार्यते । अल्पश्रुतैः पृथक् ज्ञातुम्, अयोगिभिः पृथक् द्रष्टुम्, अनीश्वरैः पृथक्कर्तुं च अशक्यतया
दुर्विवेच- त्वोक्तिः । चतुर्दशाध्यायोक्तगुणत्रयबन्धकत्वप्रकारज्ञापनाय त्रिगुणशब्दः ।

अनुकूलपरिणतेः क्षणमपि व्यवस्थापयितुमशक्यत्वमभिप्रेत्याह - क्षणक्षरणस्वभाव इति ।

'अचेतना परार्था च नित्या सततविक्रिया ।

त्रिगुणा कर्मिणां क्षेत्रं प्रकृते रूपमुच्यते ॥